SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ९५ . वर्गों वारश्च तनुगव्योमगोपमः ॥ ४६॥ केन्द्रेषु ग्रहशून्येषु लग्ने वीर्येण । क्रूरेऽपि यायिनां भवति । सौम्येऽप्यनुपचयकरे न भवति यात्रा शुभा यातुः ॥२॥" इंति लल्लः । तथा-"सौम्योऽपि न शुभं दत्ते रिपोर्वारे विलग्नपः । वारे मित्रस्य पापोऽपि भवेच्छुभफलप्रदः ॥ १॥ इति दैवज्ञवल्लमे । तथा येषां वारः शुभोऽशुभो वा तेषां कालहोराऽपि तथैव । तत्फलं चैवम्- "रूपं ग्रहस्य वर्गे स्खदिने द्विगुणं खकालहोरायाम् । त्रिगुणमरिवर्गयोगे फलस्य प्रात्यस्तृतीयांशः” ॥ १॥ इति शौनकः । तथा-"बलिनः कंटकसंस्था वर्षाधिपमासदिवसहोरेशाः । द्विगुणशुभाशुभफलदा यथोत्तरं ते परिज्ञेयाः ॥१॥” इति लल्लः ॥ __ 1 ग्रहशून्येष्विति प्रथमं तावदेकस्मिन्नपि केन्द्रे यदि कश्चित्सौम्यग्रहः स्यात्तदैव यात्रायामन्यकार्येषु च शुभं, न बन्यथा । सौम्यग्रहाभावे यद्येकमपि केन्द्रमुपचयकरेण क्रूरेणाप्यधिष्ठितं स्यात्तदापि शुभम् । सर्वकेन्द्राणां शून्यलं तु सर्वथाऽनिष्टम् । यदुक्तम्"पापोऽपि कामं बलवान्नियोज्यः, केन्द्रेषु शून्यं न शिवाय केन्द्रम् ।' इति रत्नमालायाम् । विशेषस्तु-सौम्यग्रहाश्वेत्केन्द्रेषु पापग्रहयुताः स्युस्तदा महता कष्टेन यात्रा सिध्येत् । यल्लल्लः- “सौम्यैश्च पापैश्च चतुष्टयस्थैः, कृच्छ्रेण संसिद्धिमुपैति यात्रा ।" वीर्येणेति खामिसौम्यग्रहयुतिदृष्ट्यभावेन क्रूराणां तत्सद्भावेन च लग्नं निर्वीर्यं स्यात् । बलहीनैरिति अष्टादशधा किल प्रहाणामबलता भुवनदीपकवृत्तावुक्ता, तथाहि-"ख १ मित्रनीचगो२ वक्रः ३ खराश्यस्ता ४ ऽरिवर्गगः ५ । लग्नाद्वादशगः ६ षष्ठः ७ क्रूरैयुक्तोऽथ वीक्षितः ९ ॥१॥ याम्यो १० राहास्य ११ पुच्छस्थो १२ बालो १३ वृद्धो १४ऽस्तगो १५ जितः १६ । मुथुशिले १७ मूशरिफे पापै १८ रित्यबलो प्रहः ॥२॥" अत्र नीचगा इति नीचगृहस्थो नीचांशस्थोऽपि च प्राह्यः । वक्र इति वक्राभिमुखोऽपि वक्रवत् । खराश्यस्तेति स्वगृहराशेः सप्तमराशिस्थः । अरिवर्गगः शत्रोरधिशत्रोर्वा प्रहस्य गृहहोरादिषट्कस्थः । याम्यः कर्कादिषट्करूपदक्षिणायनवर्ती । राहास्यपुच्छेति “यत्र ऋक्षे स्थितो राहुर्वदनं तद्विनिर्दिशेत् । मुखात्पञ्चदशे ऋक्षे तस्य पुच्छं व्यवस्थितम् ॥ १॥" बालः खल्पदिनोदितः। वृद्धोऽस्ताभिमुखः । अनेन ह्रस्वरूक्षबिम्बो निर्दीप्तिकश्चेत्याद्यपि संगृहीतम् । अस्तगः रविरश्मिषु प्रवेशादस्तमितः । जितो यो ग्रहयुद्धे दक्षिणगामी, शुक्रस्तूत्तरगामी सन् जितः स्यादिति वराहः । मुथुशिले इत्यादि शीघ्रो ग्रहो मन्दगतिप्रहस्यैकांशे यदा मिलितोऽद्यापि पश्चात्स्थो वा तदा मुथुशिल इथिशालाऽपराख्यो योगः। यदा तु शीघ्रो ग्रहो मन्दगतिग्रहस्यैकांशे मिलिखा तमंशमतिक्रम्याग्रतो याति तदा मूशरिफयोगो राश्यन्तं यावत् । यथा कल्पनया तृतीये त्रिंशांशे मन्दगतिर्गुरुरखि तत्रागतो रव्यादिः क्रूरग्रहो यावत्तमंशमतिक्रम्य न याति तावन्मुथुशिलः, यदा तु चतुर्थाशे गतस्तदा मूशरिफस्तावद्यावद्राश्यन्ते यातीति, एतौ च योगौ शीघ्रो ग्रहो यदि क्रूर आगत्य कुरुते तदा मन्दगतिग्रहो निर्बलः स्यादिति । प्रश्नप्रकाशे तु नवधैव निर्बलवमुक्तं तथाहि-"पापः शीघ्रः १ शुभो वक्री २ बालो ३ वृद्धा ४ऽरिभा ५ खगः ६ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy