________________
९४ जैनज्योतिर्ब्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे गमद्वारम् ।
लग्नगः । असौम्योऽपि शुभाय स्याद्व्यस्तः सौम्योऽपि चान्यथा ॥ ४४ ॥ art केन्द्रेऽथ तद्वर्गो लभे यातुर्जयापहः । गतिप्रमाणवर्णैर्वा विकृतश्च ३ नभश्वरः ।। ४५ ।। उत्तरान्तश्चरो भानोः शुभो नान्यस्तनौ ग्रहः । फलेन
1 अर्कैन्द्वोर्वक्रासंभवाद्भौमाद्यन्यतरो यो ग्रहस्तदानीं वक्रगोऽस्ति स एकोऽपि यात्रालग्ने केन्द्रस्थो जयं हन्ति, किं पुनर्द्वित्राः ? अथेति तस्यैव वक्रिणो ग्रहस्य वर्गों होराया असंभवाद् गृहद्रेष्काणनवांशादिरूपश्वेल्लनेऽस्ति तदा सोऽप्यशुभः । वक्रमार्गदिन संख्या चेयं ज्योतिषसारे – “पणसट्ठि ६५ इक्कवीसा २१ बारस अहियं सयं च ११२ बावन्ना ५२ । चउतीस सयं च १३४ कमा वक्कदिणा मंगलाईणं ॥ १ ॥ सग सय पणाल ७४५ बिणवइ ९२ चुआलसय १४४ पंचसयचउव्वीसा ५२४ । दो अ सया चालीसा २४० मंगलमाईण मग्गदिणा ॥ २ ॥ " गतीत्यादि गत्याद्यैर्विकृतोऽपि ग्रहो यात्रालग्ने मूर्ती न शुभः, अतिचरितो ग्रहो गतिविकृतः । अतिचारस्वरूपं चैवं लल्लोक्तम् – “पक्षं १ दशाहं २ त्रिपक्षी ३ दशाहं ४ मासषदतयी ५ । अतिचारः कुजादीनामेष चारस्त्वितोऽपरः ॥ १ ॥ " प्रमाणेति पूर्वप्रमाणात् ह्रस्वो महान् वा खे लक्ष्यमाणः प्रमाणविकृतः, एवं वर्णविकृतोऽपि भाव्यः । लल्लस्वाह - " यस्य ग्रहस्य जन्मक्षं क्रूर ग्रहोल्काद्यैः पीडितं स्यात्सोऽपि ग्रहो यात्रालग्ने मूर्ती न शुभः । ग्रहजन्मक्षणि चैवं - " विशाखा १ कृत्तिका २ प्यानि ३ श्रवणो ४ भाग्य ५ मिज्यभम् ६ । रेवती ७ याम्य ८ मश्लेषा ९ जन्मक्षण्य • र्कतः क्रमात् ॥ १ ॥" 2 इष्टेऽह्नि यत्रार्कौदयास्ते स्यातां तत्स्थानं सम्यग्निर्णीय चिह्न - यितव्यं, यत्र च विवक्षितग्रहस्योदयास्ते स्यातां तदपि । एवं च योऽर्कादुदीच्या मुदेत्यस्तमेति च स उत्तरचरः । यश्चार्कस्थान एवोदेत्यस्तमेति च सोऽन्तश्चरः । एतौ यात्रालग्ने मूर्ती शुभौ । अन्य इति अर्काद्दक्षिणचरस्त्वशुभः । इदं च मूर्तिग्रहस्वरूपमिह यद्यपि यात्रामुद्दिश्योक्तम्, तथापि विवाहादिसर्वकार्यलग्नेष्वपि योज्यम् । विशेष— "लग्नेऽर्कारौ शनेर्धानि शुभावन्यत्र भङ्गदौ । शीतांशुरुदयप्राप्तः सर्वकार्येषु नाशदः ॥ १ ॥ जीवशुक्रशनिस्थाने स्थितो लग्ने जयार्थदः । स्थानेष्वर्केन्दुभौमानां शशिसूनुरनर्थदः ॥ २ ॥ मन्दारबुधसूर्याणां स्थानेषु शुभदो गुरुः । शुक्रेन्दुस्थानगो लग्ने धनयोधविनाशकः ॥ ३ ॥ सौम्यस्थाने शितः शस्तो लग्नस्थोऽन्यत्र नेष्टदः । छायापुत्रो रविस्थाने प्रीतिदोऽन्यत्र नाशदः ॥ ४ ॥ स्वस्थाने न शुभो मन्दो लग्नेऽन्यत्र शुभावहः । यात्रायां चन्द्रमाः शस्तो दिग्बलेन विवर्जितः ॥ ५ ॥” इति दैवज्ञवल्लभे । इत्युक्ता सार्धषट् श्लोकैर्मूर्तिस्थग्रहव्यवस्था । अथ यात्रालग्ने षड्वर्गं वारं च नियमयति- फलेनेति वर्गः षड्वर्गा यात्रादिने वारश्च तनुगो मूर्तिस्थो यो व्योमगो ग्रहस्तत्तुल्यफलो ज्ञेयः । अयं भावः - जन्मन्यनिष्ट इत्यत आरभ्यैतच्छ्लोक पूर्वार्धं यावदुक्तया रीत्या यादृशो ग्रहो मूत्तौं शुभोऽशुभो वा निर्धारितस्तादृशस्यैव ग्रहस्य षड्वर्गो ग्रहहोरादिमूत्तौ शुभोऽशुभो वा ज्ञेयः । यात्रादिने वारोऽप्येवमेव निर्धार्यः । विशेषस्तु – “ उपचयकरस्य वर्गः क्रूरस्यापि प्रशस्यते लग्ने । चन्द्रो वा तद्युक्तो न तु विपरीतस्य सौम्यस्य ॥ १ ॥ उपचयकरग्रहृदिने सिद्धिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com