________________
९
जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ९३ जनने बली । रोऽपि विविधो भद्रस्तनौ सौम्योऽपि नेतरः ॥ ४२ ॥ जन्मकाले विधोर्यद्वाऽन्योऽन्येनोपचयस्थिताः । तानाख्याः सौम्यवत्क्रूरा
ये ग्रहाः खः खोचे खत्रिकोणे वा स्थिताः३ ६ > ४ गु.चं. २
केन्द्रेषु स्युस्ते सर्वेऽप्यन्योन्यं कारकसंज्ञाः, तेषां मध्ये दशमकेन्द्रस्थो ग्रहः शेषग्रहाणं विशिष्य कारकः, सर्वेषां चैतेषां चन्द्रयुतिष्ट्या बलवत्त्वम्, यथा कर्के लग्ने तस्थे चन्द्रेडभैरगुरुमन्दाः खखोचस्थाः सन्तो मिथः कार
काः स्युः। जातकोक्ताश्च कारकाः ॥ ४३ ॥ जन्मलग्नेशयोस्तानः कारको वाऽपि दशाः स्युः क्रमादेताः ॥१॥ रवी १न्दु २ भौम ३ ज्ञ ४ शनी ५ ज्य ६ राहु ७ सकेतु ८ शुक्रेषु ९ नखाः २० खबाणाः ५० । अष्टाश्वि २८ षड्बाण ५६ रसाग्नि ३६ देव ३३ देवा ३३ तिशीत्य ३४ भ्रहया ७० दशाहाः ॥२॥" सर्वे दिनाः षष्ट्यधिका त्रिशती ३६० । “हानिं १ धनं २ रुजं ३ लक्ष्मी ४ दैन्यं ५ लक्ष्मी ६ च बन्धनम् । भयं ८ श्रियं ९ चार्कादीनां दद्युदिनदशाः क्रमात् ॥ ३॥" अत्रायमानायः-खनामराशौ. यदिनेऽर्कः संक्रान्तस्तद्दिनादारभ्य वर्तमानदिनं यावद्दिना गण्यन्ते इयन्तो दिना गता इति, तत्राद्या विंशतिर्दिना रवेर्दिनदशा, अग्रे पश्चाशद्दिना इन्दोरित्यादि, एवं गणने यस्य ग्रहस्य दिनदशा तदानीं समेति स दशापतिरिति । सद्यः सफल इति यस्तदानीं गोचरेण प्रतिकूलवेधेन वा शुभः स सद्यः सफलः, यस्तु गोचरेणानुकूलवेधेन वाऽशुभः स सद्योऽफलः । तथा जन्मपत्रिकायां यो बली, रूपवानित्यादिवदतिशायने मत्वर्थीयोऽयम्, ततो यः सर्वोत्कृष्टबल इत्यर्थः । इतर इति यो वर्तमानदशेशस्यारिः, यो वा तदानीमफलः, यो वा जन्मकाले निर्बल इति । ननु यदि जनने बलीत्युक्तं तदा जन्मनि सर्वोत्कृष्टबलोऽपि यो मृत्युस्थलादिनाऽनिष्टदस्तस्यापि मूतौ ग्राह्यलप्रसङ्गः । मैवम् , "जन्मन्यनिष्टः सौम्योऽपि" इत्यनेनैव तस्य निषेधभवनात् ॥ __ 1 तथा लग्नस्थग्रहस्य दशमतुर्यस्थो ग्रहः सर्वोऽपि खगृहखोच्चखत्रिकोणेष्वस्थितोऽपि कारकाख्यः स्यात् । तथा लग्नं केन्द्रं वा विनाऽपि स्थितस्य ग्रहस्य यदि कश्चिद्ग्रहो दशमस्थाने खर्वोचत्रिकोणानामन्यतमस्थो निसर्गमैत्र्या तात्कालिकमैत्र्या च संपन्नः स्यात्तदा सोऽपि तस्य कारकाख्यः स्यात् । उक्तं च-"खर्कोच्च (क्षतुं)गमूलत्रिकोणगाः; कंटकेषु यावन्त आश्रिताः । सर्व एव तेऽन्योऽन्यकारकाः, कर्मगस्तु तेषां विशेषतः॥१॥" अत्रोदाहरणम्-"कर्कटोदयगते यथोडुपे,खोच्चगाः कुजयमार्कसूरयः।कारका निगदिताः परस्परं १, लग्नगस्य सकलोऽम्बराम्बुगः २॥ २ ॥" अत्र सकल इति खगृहोचत्रिको. गेष्वस्थितोऽपीति भावः । "खर्शकोणोच्चगः खेटः खेटस्य यदि कर्मगः । सुहृत्तद्गुणसंपन्नः कारकश्चापि संस्मृतः ॥३॥" 2 नायकाः स्युः प्रसूतौ ये रक्षका ये च वर्धकाः । वे क्रूरा अपि यात्रायां लग्नस्थाः शुभदा ग्रहाः' इति दैवज्ञवल्लमे, खरूपं चैषां बृहज्जातके।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com