Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 103
________________ ९४ जैनज्योतिर्ब्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे गमद्वारम् । लग्नगः । असौम्योऽपि शुभाय स्याद्व्यस्तः सौम्योऽपि चान्यथा ॥ ४४ ॥ art केन्द्रेऽथ तद्वर्गो लभे यातुर्जयापहः । गतिप्रमाणवर्णैर्वा विकृतश्च ३ नभश्वरः ।। ४५ ।। उत्तरान्तश्चरो भानोः शुभो नान्यस्तनौ ग्रहः । फलेन 1 अर्कैन्द्वोर्वक्रासंभवाद्भौमाद्यन्यतरो यो ग्रहस्तदानीं वक्रगोऽस्ति स एकोऽपि यात्रालग्ने केन्द्रस्थो जयं हन्ति, किं पुनर्द्वित्राः ? अथेति तस्यैव वक्रिणो ग्रहस्य वर्गों होराया असंभवाद् गृहद्रेष्काणनवांशादिरूपश्वेल्लनेऽस्ति तदा सोऽप्यशुभः । वक्रमार्गदिन संख्या चेयं ज्योतिषसारे – “पणसट्ठि ६५ इक्कवीसा २१ बारस अहियं सयं च ११२ बावन्ना ५२ । चउतीस सयं च १३४ कमा वक्कदिणा मंगलाईणं ॥ १ ॥ सग सय पणाल ७४५ बिणवइ ९२ चुआलसय १४४ पंचसयचउव्वीसा ५२४ । दो अ सया चालीसा २४० मंगलमाईण मग्गदिणा ॥ २ ॥ " गतीत्यादि गत्याद्यैर्विकृतोऽपि ग्रहो यात्रालग्ने मूर्ती न शुभः, अतिचरितो ग्रहो गतिविकृतः । अतिचारस्वरूपं चैवं लल्लोक्तम् – “पक्षं १ दशाहं २ त्रिपक्षी ३ दशाहं ४ मासषदतयी ५ । अतिचारः कुजादीनामेष चारस्त्वितोऽपरः ॥ १ ॥ " प्रमाणेति पूर्वप्रमाणात् ह्रस्वो महान् वा खे लक्ष्यमाणः प्रमाणविकृतः, एवं वर्णविकृतोऽपि भाव्यः । लल्लस्वाह - " यस्य ग्रहस्य जन्मक्षं क्रूर ग्रहोल्काद्यैः पीडितं स्यात्सोऽपि ग्रहो यात्रालग्ने मूर्ती न शुभः । ग्रहजन्मक्षणि चैवं - " विशाखा १ कृत्तिका २ प्यानि ३ श्रवणो ४ भाग्य ५ मिज्यभम् ६ । रेवती ७ याम्य ८ मश्लेषा ९ जन्मक्षण्य • र्कतः क्रमात् ॥ १ ॥" 2 इष्टेऽह्नि यत्रार्कौदयास्ते स्यातां तत्स्थानं सम्यग्निर्णीय चिह्न - यितव्यं, यत्र च विवक्षितग्रहस्योदयास्ते स्यातां तदपि । एवं च योऽर्कादुदीच्या मुदेत्यस्तमेति च स उत्तरचरः । यश्चार्कस्थान एवोदेत्यस्तमेति च सोऽन्तश्चरः । एतौ यात्रालग्ने मूर्ती शुभौ । अन्य इति अर्काद्दक्षिणचरस्त्वशुभः । इदं च मूर्तिग्रहस्वरूपमिह यद्यपि यात्रामुद्दिश्योक्तम्, तथापि विवाहादिसर्वकार्यलग्नेष्वपि योज्यम् । विशेष— "लग्नेऽर्कारौ शनेर्धानि शुभावन्यत्र भङ्गदौ । शीतांशुरुदयप्राप्तः सर्वकार्येषु नाशदः ॥ १ ॥ जीवशुक्रशनिस्थाने स्थितो लग्ने जयार्थदः । स्थानेष्वर्केन्दुभौमानां शशिसूनुरनर्थदः ॥ २ ॥ मन्दारबुधसूर्याणां स्थानेषु शुभदो गुरुः । शुक्रेन्दुस्थानगो लग्ने धनयोधविनाशकः ॥ ३ ॥ सौम्यस्थाने शितः शस्तो लग्नस्थोऽन्यत्र नेष्टदः । छायापुत्रो रविस्थाने प्रीतिदोऽन्यत्र नाशदः ॥ ४ ॥ स्वस्थाने न शुभो मन्दो लग्नेऽन्यत्र शुभावहः । यात्रायां चन्द्रमाः शस्तो दिग्बलेन विवर्जितः ॥ ५ ॥” इति दैवज्ञवल्लभे । इत्युक्ता सार्धषट् श्लोकैर्मूर्तिस्थग्रहव्यवस्था । अथ यात्रालग्ने षड्वर्गं वारं च नियमयति- फलेनेति वर्गः षड्वर्गा यात्रादिने वारश्च तनुगो मूर्तिस्थो यो व्योमगो ग्रहस्तत्तुल्यफलो ज्ञेयः । अयं भावः - जन्मन्यनिष्ट इत्यत आरभ्यैतच्छ्लोक पूर्वार्धं यावदुक्तया रीत्या यादृशो ग्रहो मूत्तौं शुभोऽशुभो वा निर्धारितस्तादृशस्यैव ग्रहस्य षड्वर्गो ग्रहहोरादिमूत्तौ शुभोऽशुभो वा ज्ञेयः । यात्रादिने वारोऽप्येवमेव निर्धार्यः । विशेषस्तु – “ उपचयकरस्य वर्गः क्रूरस्यापि प्रशस्यते लग्ने । चन्द्रो वा तद्युक्तो न तु विपरीतस्य सौम्यस्य ॥ १ ॥ उपचयकरग्रहृदिने सिद्धिः Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160