Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
६४ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्श कार्यद्वारम् । न्द्रचित्राद्विदैववरुणाग्निभुजंगभानि । प्रीतिः स्वयोरति नरामरयोस्तु मध्या वैरं पलादसुरयोतिरेन्त्ययोस्तु ॥ २१ ॥राशेरोजान्मृतिः षष्ठे सर्वाः ३ स्युः संपदोऽष्टमे । राशौ द्विादशे नैःस्व्यं स्वामिमैत्र्ये पुनः श्रियः ॥२२॥
प्रीति
कर्क
कन्या
मेष
হান্তু
यत्र द्वयो राशी मिथः षष्ठाष्टमौ स्याताम् , ६ । ८ धनुः तयोः षडष्टमकाभ्यां राशिकूटम् , एवं मेष वृश्चिक कुंभ द्विद्वादशनवपञ्चमादिष्वपि भाव्यम् । मिथुन मकर
मृतिरिति यत्रौजान्मेषमिथुनादितः|| सिंह मीन वृश्चिक | मिथुन || सकाशात् षष्ठो राशिः स्यात्तत्किल तुला | वृष
मकर | सिंह शत्रुषडष्टमकम् , राशीनां मिथो वैर-|| धनुः । ॥ मीन | तुला सद्भावात् । यस्याष्टमो राशिस्तस्य || कुंभ । कन्या मृत्युः स्यादिति रत्नमालाभाष्ये । संपद' इति ओजादेव सकाशादष्टमे राशौ सति यत्स्यात्त. प्रीतिषडष्टमकम् , राशीशानां मिथः प्रीतिसद्भावात् । तदयं भावः-मकरवृषमीनकन्यावृश्चिककर्काष्टमे रिपुत्वं स्यात् । अजमिथुनधन्विहरिघटतुलाष्टमे मित्रताऽवश्यम् ॥ १॥
कक
__1 नृरक्षसोः। 2 ननु वैरमैत्र्यादिद्वयोर्जन्मलग्नयोर्विचारयितुमुचितं, तस्यैव सर्वत्र बलवत्त्वात् , तत्किं जन्मराश्योरिहोक्तम् ? उच्यते-“जन्मलममिदमङ्गमङ्गिना, मेनिरे मन इतीन्दुमन्दिरम् । सौहृदं च मनसोर्न देहयोर्मेलकस्तदयमिन्दुगेहयोः ॥ १॥ ननु यद्येवं तदाऽस्तु राशिमैत्र्यादिविचारः, परं स्थूलमानं ह्यदस्ततो जन्मराशिस्थनवांशयोस्तद्विचारो युक्तः "प्रभुरिह नवांश" इत्युक्तेः, मैवम् , स्थूलस्यैवात्र पूर्वाचार्यैः प्रमाणीकरणात् , नो चेत्कर्कस्थे मकरांशेऽपि गतोऽर्कः किं नोत्तरायणीत्युच्यते ? तथा यथोकदैवसिकनक्षत्रविरहेऽपि तदुदये तन्मुहूर्तेषु वा जातकर्मक्षौरादिकार्याणीव करप्रहोऽपि किमिति नानुमन्यते ? अतः स्थूलस्यैवात्र प्रामाण्यम् । नापि सूक्ष्मत्वमप्रमाणमेव । यतः-"भिन्नभिन्नफलभाग्भुवि भूयानेकधिष्ण्यदिनजोऽपि जनोऽयम् । सूक्ष्मतापि ननु तेन गरिष्ठा, किंतु मूलमनुरुध्य विधेया ॥ २॥" अत्र धिष्ण्यदिनेत्युपलक्षणम् , तेनैकलमजोऽपीत्यपि ज्ञेयम् । तदयमाशयः-लग्ने किल नवांशद्वादशांशत्रिंशांशकलाविकलादीनि यथोत्तर सूक्ष्माणि सन्ति ततः-"अत्यन्तसूक्ष्मः स कलैकदेशो येनाखिलानां भिदुरा फलर्द्धिः । नास्मादृशां दृग्विषयः स तस्मान्मूलानुकूला व्यवहारसिद्धिः ॥ ३॥" इदं विवाहवृन्दा. बने । अत्र मूलानुकूलेति पूर्वाचार्यत्र यत्प्रमाणीकृतं तत्तत्र मूलम् , ततो जन्मादिलमेषु कलादिकं यावद्विचार्यते, इह तु राशेरेव मैत्री विचार्या, तथैव पूर्वाचार्यैः प्रमाणीकरणात्, इत्यलं प्रसङ्गेन।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160