Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
७० जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भ सिद्धौ तृतीयविमर्श कार्यद्वारम् ।
ख्योऽहो रात्री पञ्चदशोऽशः । तदीशास्तावदेवम्-"शिव१ भुजगर मित्र३ पितृ४ वसु५ जल६ विश्व विरञ्चि८ पङ्कजप्रभवाः९ । इन्द्रा १० नीन्द्र ११ निशाचर१२ वरुणा१३ र्यम१४ योनय१५ श्चाह्नि ॥१॥ रुद्रा१ जा२ हिर्बुधाः३ पूषा४ दस्रा५ न्तका६ नि धातारः८ । इन्द्व९ दिति १० गुरु११ हरि १२ रवि १३ त्वष्ट्र १४ नलाख्याः१५ क्षणाधिपा रात्रौ ॥ २ ॥" क्षणनामानि पुनरेवम्-"आर्द्रा १ श्लेषा२ नुराधा३ च मघा४ चैव धनि. ष्ठिका५ । पूर्वाषाढो६ तराषाढे७ अभिजिट द्रोहिणी९ तथा ॥ ३ ॥ ज्येष्ठा विशाखिका ११ मूलं १२ नक्षत्रं शततारकम् १३ । उत्तर १४ पूर्वे फल्गुन्यौ १५ क्षणास्तिथिसमा दिने ॥४॥" एषां मध्ये च-"दक्खिणदिसि मुत्तु गमं दिक्खपइठ्ठागमागमाइकयं । जं तं सव्वं सुहयं अभिजिमुहुत्तंमि अठ्ठमए ॥५॥" यतः-"उप्पाय-विहि-वइवाय-दड्डतिहि-पावगह विहिअदोसे । मज्झण्हगओ सूरो सव्वे ववणीय सुख्खकरो ॥ ६ ॥" इति हर्षप्रकाशे । पूर्णभद्रोऽप्याह- "ग्रसते ग्रहचक्रमसौ रविरुदये यावदेव यामयुगम् । उद्वमति वमनका. ले वान्तं तद्विह्वलीभवति ॥ १॥ विह्वलतामुपगतवति तस्मिन् विजयाह्वयो भवति योगः। यस्मिन् विहितं कार्य न चलति कथमपि युगान्तेऽपि ॥ २ ॥" लल्लोऽप्याह-"रवौ गगनमध्यस्थे मुहूर्तेऽभिजिदाह्वये । छिनत्ति सकलान् दोषांश्चक्रमादाय माधवः ॥ १॥" केचित्तु-“दुपहरघडिआ ऊणे दुपहर घडिएग अहिअ मज्झण्हे । विजयं नाम मुहुत्तं पसाहगं सव्वकजाणं ॥१॥" इत्याहुः । सायं सन्ध्यायामपि विजययोगो हर्षप्रकाशे उक्तः । तथाहि-"ईसि संझामइकतो किंचि उभिन्नतारओ। विजओ नाम जोगोऽयं सव्वकज्जप्पसाहओ ॥१॥" लल्लेन प्रातस्त्यसन्ध्यायामपि यात्रेष्टा, तथाहि-"आव. श्यके तथा याने सौम्येऽस्ते निधनेऽपि वा । व्रजेदोंदये वाऽपि मध्याह्ने वाऽविशङ्कितः ॥१॥" अत्र सौम्येऽस्ते इति यद्यर्कोदयसमये मध्याह्ने वा तात्कालिकलग्नकुंडलिकायां सप्तमेऽष्टमे वा भवने सौम्यग्रहः स्यात्तदा निःशंकं प्रयाणं कुयोदिति । प्रातस्त्यसन्ध्याया उषात्रितारसंज्ञे अपि । यत्पूर्णभद्रः-"उषाभिधानं वरयोगमेवं त्रितारमाहुमुनिवृन्दवन्द्याः" इति । तथा-"उषां प्रशंसयेद्गर्ग इति"। एवं च सन्ध्यास्तिस्रोऽपि शस्ता इति तात्पर्यम् । तथा-"रात्रावार्दा १ तथैवाष्टौ पूर्वभद्रपदादयः ९ (क्रमात् ) । आदित्य १० पुष्य ११ श्रुतयो १२ हस्ताद्याश्च त्रयः १५ क्रमात् ॥१॥ यस्मिन् धिष्ण्ये यच्च कर्मोपदिष्ठं, तदैवज्ञैस्तन्मुहूर्तेऽपि कार्यम् । दिक्शूलाद्यं चिन्तनीयं समस्तं, तद्वद्दण्डः पारिश्च क्षणे. षु ॥ २॥" अत्र दिक्शूलाद्यमिति नक्षत्रदिक्शूलकीलादिकं वक्ष्यमाणस्वरूपं मुहूर्तेष्वपि नक्षत्रवद्विचार्य, यस्यां दिशि च तदुत्पद्यमानं स्यात् सा दिक् प्रयाणादौ त्याज्या । तथा चरस्थिरादयः सप्त धिष्ण्यमेदा धिष्ण्यसंबन्धिक्षणेष्वपि इष्टकार्यानुरूपतामपेक्ष्य विचार्याः । पारिघश्चति वक्ष्यमाणपरिघदण्डं मुहूर्तेष्वपि नक्षत्रवद्विचार्य यात्राद्यं कुर्यादिति रत्नभाष्ये । पौराणिकक्षणास्त्वेवम्-"रौद्रः १ श्वेतो २ मैत्र ३ श्चारभटः ४ पञ्चमस्तु सावित्रः ५। वैराजो ६ गान्धर्व ७ स्तथाऽभिजि ८ द्रोहिण ९ बलौ १० च ॥ १॥ विजयो ११ ऽथ नैर्ऋताख्यो १२ माहेन्द्रो १३ वारुणो १४ भग १५ श्चैव । एते पुराणकथिता दिवसShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160