SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७० जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भ सिद्धौ तृतीयविमर्श कार्यद्वारम् । ख्योऽहो रात्री पञ्चदशोऽशः । तदीशास्तावदेवम्-"शिव१ भुजगर मित्र३ पितृ४ वसु५ जल६ विश्व विरञ्चि८ पङ्कजप्रभवाः९ । इन्द्रा १० नीन्द्र ११ निशाचर१२ वरुणा१३ र्यम१४ योनय१५ श्चाह्नि ॥१॥ रुद्रा१ जा२ हिर्बुधाः३ पूषा४ दस्रा५ न्तका६ नि धातारः८ । इन्द्व९ दिति १० गुरु११ हरि १२ रवि १३ त्वष्ट्र १४ नलाख्याः१५ क्षणाधिपा रात्रौ ॥ २ ॥" क्षणनामानि पुनरेवम्-"आर्द्रा १ श्लेषा२ नुराधा३ च मघा४ चैव धनि. ष्ठिका५ । पूर्वाषाढो६ तराषाढे७ अभिजिट द्रोहिणी९ तथा ॥ ३ ॥ ज्येष्ठा विशाखिका ११ मूलं १२ नक्षत्रं शततारकम् १३ । उत्तर १४ पूर्वे फल्गुन्यौ १५ क्षणास्तिथिसमा दिने ॥४॥" एषां मध्ये च-"दक्खिणदिसि मुत्तु गमं दिक्खपइठ्ठागमागमाइकयं । जं तं सव्वं सुहयं अभिजिमुहुत्तंमि अठ्ठमए ॥५॥" यतः-"उप्पाय-विहि-वइवाय-दड्डतिहि-पावगह विहिअदोसे । मज्झण्हगओ सूरो सव्वे ववणीय सुख्खकरो ॥ ६ ॥" इति हर्षप्रकाशे । पूर्णभद्रोऽप्याह- "ग्रसते ग्रहचक्रमसौ रविरुदये यावदेव यामयुगम् । उद्वमति वमनका. ले वान्तं तद्विह्वलीभवति ॥ १॥ विह्वलतामुपगतवति तस्मिन् विजयाह्वयो भवति योगः। यस्मिन् विहितं कार्य न चलति कथमपि युगान्तेऽपि ॥ २ ॥" लल्लोऽप्याह-"रवौ गगनमध्यस्थे मुहूर्तेऽभिजिदाह्वये । छिनत्ति सकलान् दोषांश्चक्रमादाय माधवः ॥ १॥" केचित्तु-“दुपहरघडिआ ऊणे दुपहर घडिएग अहिअ मज्झण्हे । विजयं नाम मुहुत्तं पसाहगं सव्वकजाणं ॥१॥" इत्याहुः । सायं सन्ध्यायामपि विजययोगो हर्षप्रकाशे उक्तः । तथाहि-"ईसि संझामइकतो किंचि उभिन्नतारओ। विजओ नाम जोगोऽयं सव्वकज्जप्पसाहओ ॥१॥" लल्लेन प्रातस्त्यसन्ध्यायामपि यात्रेष्टा, तथाहि-"आव. श्यके तथा याने सौम्येऽस्ते निधनेऽपि वा । व्रजेदोंदये वाऽपि मध्याह्ने वाऽविशङ्कितः ॥१॥" अत्र सौम्येऽस्ते इति यद्यर्कोदयसमये मध्याह्ने वा तात्कालिकलग्नकुंडलिकायां सप्तमेऽष्टमे वा भवने सौम्यग्रहः स्यात्तदा निःशंकं प्रयाणं कुयोदिति । प्रातस्त्यसन्ध्याया उषात्रितारसंज्ञे अपि । यत्पूर्णभद्रः-"उषाभिधानं वरयोगमेवं त्रितारमाहुमुनिवृन्दवन्द्याः" इति । तथा-"उषां प्रशंसयेद्गर्ग इति"। एवं च सन्ध्यास्तिस्रोऽपि शस्ता इति तात्पर्यम् । तथा-"रात्रावार्दा १ तथैवाष्टौ पूर्वभद्रपदादयः ९ (क्रमात् ) । आदित्य १० पुष्य ११ श्रुतयो १२ हस्ताद्याश्च त्रयः १५ क्रमात् ॥१॥ यस्मिन् धिष्ण्ये यच्च कर्मोपदिष्ठं, तदैवज्ञैस्तन्मुहूर्तेऽपि कार्यम् । दिक्शूलाद्यं चिन्तनीयं समस्तं, तद्वद्दण्डः पारिश्च क्षणे. षु ॥ २॥" अत्र दिक्शूलाद्यमिति नक्षत्रदिक्शूलकीलादिकं वक्ष्यमाणस्वरूपं मुहूर्तेष्वपि नक्षत्रवद्विचार्य, यस्यां दिशि च तदुत्पद्यमानं स्यात् सा दिक् प्रयाणादौ त्याज्या । तथा चरस्थिरादयः सप्त धिष्ण्यमेदा धिष्ण्यसंबन्धिक्षणेष्वपि इष्टकार्यानुरूपतामपेक्ष्य विचार्याः । पारिघश्चति वक्ष्यमाणपरिघदण्डं मुहूर्तेष्वपि नक्षत्रवद्विचार्य यात्राद्यं कुर्यादिति रत्नभाष्ये । पौराणिकक्षणास्त्वेवम्-"रौद्रः १ श्वेतो २ मैत्र ३ श्चारभटः ४ पञ्चमस्तु सावित्रः ५। वैराजो ६ गान्धर्व ७ स्तथाऽभिजि ८ द्रोहिण ९ बलौ १० च ॥ १॥ विजयो ११ ऽथ नैर्ऋताख्यो १२ माहेन्द्रो १३ वारुणो १४ भग १५ श्चैव । एते पुराणकथिता दिवसShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy