________________
३२ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श योगद्वारम् । कुजज्ञेन्दुशुक्रवारेषु । अश्याद्यैर्यन्तरितैनन्दादशपञ्चमीतिथिषु ॥ ५३ ॥ राजयोगो भैरण्याथैद्यन्तरैर्भः शुभावहः । भद्रातृतीयाराकासु कुजज्ञभू३गुभानुषु ॥ ५४ ॥ स्थिरयोगः शुभो रोगोच्छेदादौ शनिजीवयोः । त्रयो दश्यष्टरिक्तासु४-९-१४ व्यन्तरैः कृत्तिकादिभैः ॥ ५६ ॥ यमलाख्यो द्विपादः त्रिपाद: त्रिपुष्करः । जीवारशनिवारेषु योगो भद्रातिथौ स्मृतः ॥ ५६ ॥ पञ्चके वासवान्त्यार्धात्तॄणकाष्ठगृहोद्यमान् । याम्यदिग्गमनं शय्यां मृतकार्यं च वर्जयेत् ॥ ५७ ॥ पञ्चकं श्रवणादीनि पञ्च ऋक्षाणि निर्दिशेत् । केचित्पुनर्धनिष्ठादिपञ्चकं पञ्चकं विदुः ॥ ५८ ॥
होनिवृद्ध्यादिकं सर्व योगे स्याद्यमले द्विशः । त्रिशस्त्रिपुष्कराख्ये तु १० पञ्चशः पञ्चकेऽपि च ॥ ५९॥
के एवमेते विरुद्धनामानः सामान्ययोगसुयोगसिद्ध्यमृतसिघ्याख्याश्चेति पञ्चविधयोगा उक्ताः आत्यन्तिकासिद्धिर्यादृच्छिकसिद्धिर्विलम्बितसिद्धिश्चिन्तितसिद्धिश्चिन्तिताधिकसिद्धिश्चेति क्रमादेषां फलानीति त्रिविक्रमः +
1 अश्विनीरोहिणीपुनर्वसुमघाहस्तविशाखामूलश्रवणपूर्वभद्रपदान्यतरमेन । 2 भरणीमृगशिरःपुष्यपूर्वफल्गुनीचित्राऽनुराधापूर्वाषाढाधनिष्ठोत्तरभद्रपदान्यतरभेन । कुमारराजयोगौ विरुद्धयोगोत्पत्तिं वयं ग्राह्यौ। 3 कृत्तिका श्लेषोत्तरफल्गुनीखातिज्येष्ठोत्तराषाढाशततारारेवत्यन्यतरभेन । 'अणसण-खिल-वाहि-रिण-रिउ-रण-दिव्वं जलासए बंधो। कायन्वो थिरजोगे जेसिं करणं पुणो नत्थि । इति पाकत्रियाम् । उपलक्षणवान्मित्रच्छेदस्नेहच्छे दादि च । अयं स्थविरयोगाऽपरनामाऽतिदुर्बलोऽनारंभिवात् , खभावाद निवर्तकश्चोक्तकार्येष्वेव ग्राह्यो नान्येषु। 4 मृगशीर्षचित्राधनिष्ठासु। 5 कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तरा. षाढापूर्वभद्रपदासु। 6 धनिष्ठा । 7 नारंभणीयं न चाच्छादनीयम् । 8 न कार्या न च व्यापार्या । 'धनिष्ठा धननाशाय प्राणघ्नी शततारका । पूर्वायां दण्डयेद्राजा उत्तरा मरणं ध्रुवम् ॥ १ ॥ अग्निदाहश्च रेवत्यामित्यतत्पञ्चके फलम्' ॥ इति व्यवहारसारे । 'यदि कश्चिदकस्मात्पंचके मृतस्तदा छेदनसहितं करचरणबंधनं तस्य कुर्यादिति लल्लः । तद्दहनविधिस्त्वयं गरुडपुराणे-दर्भमयाश्चत्वारः पुत्तलकाः कृत्वा शवपार्श्वे स्थाप्याः, तेन सहैव च दहनीयाः, अन्यथा पुत्रगोत्रादीनां प्रत्यवायः स्यात् । 9 नारचन्द्रे तु श्रवणरेवत्योः सर्वदिग्गमनमनुमन्यमानेन दक्षिण दिग्यात्राऽप्यनुमेने तथाहि 'सर्वदिग्गमने हस्तः श्रवणं रेवतीद्वयम् । मृगः पुण्यश्च सिद्ध्यै स्युः कालेषु निखिलेष्वपि ॥ 10 एविष्ठं कार्य कार्य न खनिष्टमित्याशयः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com