Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 156
________________ कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते १४४ तत्र यत्र क्रियाफलमपि कर्तयैव तिष्ठति स धातुरकर्मकः । यत्र च क्रियाफलं कर्तुरन्यत्र तिष्ठति स रुकर्मकः, यतः स्वार्थफलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम्, स्वार्थ फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वमित्यकर्मक-सकर्मक5 भारवोः शाब्दिकाभिमतं लक्षणम् । तथा चोपसर्गरहितो वृत्धातुः यद्यपि फलसमानाधिकरणव्यापारवाचकस्तथापि उपसर्गसन्निधानेनात्र प्रेरणा विषयीभूतस्थित्यनुकूलव्यापारसंपत्त्या सकर्मकत्वं भवतीति कर्मणि कप्रत्ययः । शब्द कौस्तुभे चात्रान्तर्भाक्तिव्यर्थत्वेन सकर्मकत्वमुक्तम् । 10 तृतीया चात्र पक्षे कर्तृकरणहेतुसाधारणी भवितुमर्हति । तथापि कर्तृकरणयोरेव तमाह-यदा तेनेति कर्तरि करणे वा तृतीयेति । यदा स्वकर्मकविवक्षयेति । तुनाऽरुचिः सूचिता । तद्वीजं तु सकर्मकत्वविक्षयैव सिद्धे उपसर्गसम्बन्धसम्मतस्य सकर्मकत्वस्य त्यागे मानाभाव 15 इति सकर्मकाणामपि धातूनां विवक्षावशाद कर्मकत्वस्य 355 " धातोरर्थान्तरे इत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ " | इति वार्तिकवचनेन सिद्धतया तादृशविवक्षावशादकर्मकत्वस्य संभावनामात्रेण पक्षान्तरमिदमुपन्यस्तम् । तथा 20 तथा चाकर्मकत्वे कर्मणि करणे च न क्तोऽपि तु कर्तर्येव । तथा च तेनेत्यत्र हेतावेव तृतीयेति युक्तम् । कुशाम्बेन निर्वृत्ता इत्यादी यथायोगं कर्तरि हेतौ या तृतीयेत्यनुस - न्धेयम् । विनाऽपि चकारं 'देशे तन्नाम्नि' इत्येतदनुवृत्तौ सिद्धायां चकारस्य वैयर्थ्यमाशङ्कयाह-चकारचतुणीं 25 योगानामुत्तरत्रानुवृत्यर्थ दति । यद्यपि योगास्त्रय एव - " निवासादूरभवे " [ ६.२.६९.], " तदत्रास्ति ० " [६.२.७०.], " तेन निर्वृत्तं च " [ ६.२.७१. इति । तथापि निवासादूरभवे इत्यनेनार्थद्वये प्रत्ययविद्यानादस्य भिन्नवाक्यकल्पनया योगद्वयम् । इत्थं योगानां चतुष्टयं 30 सिद्धयति, तच्चोत्तरत्र सहैवानुवर्तते । तत्फलमाह--तेनोत्तरे प्रत्यया यथायोगमित्यादि । यथायोगमित्यस्य येनार्थेन यस्याः प्रकृतेयेगो युज्येत तत्रार्थे तस्याः प्रकृतेः प्रत्ययः । (येष्वन्यतमे एवार्थ इति यावत्) भवदि, न तु सर्वाभ्य एव प्रकृतिभ्यः सर्वेभ्वेष्वर्थेषु भवन्तीति भावः ॥ ६२७१॥ नद्य मतुः ||६|२|७२॥ तस्य निवासः, तस्यादूरभवः तदत्रास्ति तेन निर्वृतं चेत्येष्वर्थेषु यथायोगं मतुः प्रत्ययो पा० २. ऋ० ७२. ] भवति, नयां देशे नाम्नि प्रत्ययान्तं चेन्नदीविषयं देशस्य नाम भवति, नदीनामेत्यर्थः । अणोऽपवादः । 40 उदुम्बरा अस्यां सन्ति उदुम्बरावती नदी । मशकावती । वीरणावती । पुष्करावती । क्षुमती । मती । शरावती । इरावती । भगीरथेन निर्वृत्ता भागीरथी । भैमरथी । जाह्नवी । सौवास्तवी | अमत्यन्तान्येव भागी- 45 रथ्यादीनि नदीनामानीति मतुर्न भवति ॥७२॥ श०म० न्यासानुसन्धानम् - नद्यां० । चतु र्णामर्थानामनुवृत्तिः सिद्धान्तितैव पूर्वत्र, प्रकृतिरपि अर्थानुसारमेव षष्ठ्यन्तादिका यथायोगमेवानुसन्वेया । 'देशे नाम्नि' इति च पूर्वतोऽनुवृत्तमेव । नद्यामिति च देशे 50 इत्यनेन सामानाधिकरण्यसंबन्धेनेवान्वेतुं युज्यते । तथापि सप्तम्या विषयतार्थस्वं वर्णयति नदीविषयं देशस्य नाम भवति इति नद्यवच्छिन्नो यो देश इति प्रतीम्या नद्यामवच्छेदकताख्या विषयता भवति, नद्यवच्छिन्नश्च देशो नदीरूप एवेति वस्तुतः सामानाधिकरण्यमेव पर्यत्रस्य- 55 तीत्याह - नदी नामेत्यर्थ इति । प्रत्ययान्तं चेन्नदीनाम भवतीति पर्यवसितोऽर्थ इत्यर्थः । ननु अर्थानुसारमिह 'तदत्रास्ति' इत्यस्यैव योगः सम्भवति । तथा च तस्मिअयं मत्वर्थीयमतुने वोदुम्बरावतीत्यादीनां सिद्धौ सत्यां किमिह मतोविंधानमिति चेदश्राह--अणोऽपवाद इति । चातुरर्थिको 60 ह्म‍ मतोरपवाद इति पूर्वमुक्तम्, स मा भूत्, किन्तु मतुरेवायं भवत्वित्यर्थमिह मतोरेव विधानमिति भावः । अयोदाहरति- उदुम्बरा अस्यां सन्तीति । उदुम्बरशब्दात् मतौ कृते " अनजिरादि ० " [ ३.२.७८ ] इति दीर्घं मतोर्मस्य वत्वे स्त्रियामुदुम्बरावतीति । एवमन्येष्वपि विज्ञेयम् । 65 कचिन्नद्यामपि मतुर्न भवतीत्यर्थस्य सूचनाय हा दृशान्यपि रूपाणि उदाहरति-भगीरथेन निवृत्ता भागीरथीस्यादिना । भीमरथेन भैमरथी, जहनुना जाह्नवी, सुवास्तुना सौवास्तवीति । आद्ययोरणि, आदिस्वरवृद्धी स्त्रीत्वाद् ङयां रूपसिद्धिः । अन्त्ययोरणि आदिस्वरवृद्धौ 70 " अस्वयंभुवोऽव्” [७.४.७०.] इत्यवादेशे यां रूपसिद्धिः । मतुरेषु कुतो नेत्याह-अमत्यन्तान्येव भागीरथ्यादीनि नदीनामानीति । अयमाशयःअत्र प्रकरणे विवक्षार्थ इति करणः सर्वत्र विज्ञेयः । तथा व व्यवहृते नान्येव प्रत्ययविधानमिति भागीरथादिशब्दा- 75. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296