Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 192
________________ कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते ૮૦ रूप्य इति ईषदुनो रूप्यो 'बहुरूप्य' इति "नाम्नः मागूबहुर्वा" [७.३.१२.] इति बहुप्रत्यये प्राविहिते सति भवति । अयमपि च रूप्यान्तः इति तस्मादपि णः स्यात् । तथा च तदन्तस्य स्त्रियां दीर्न स्यात् । इष्यते त्वणु, $ तेन बाहुरूप्यी इति भवति । तदेतदाह अन्तग्रहणेनैव सिद्धे उत्तरपदग्रहणं बहुप्रत्ययपूर्व निवृत्त्यर्थमिति |६|३|२२|| दिक्पूर्वपदादनाम्नः ||६|३|२३|| ० प्र०- दिक्पूर्वपदादनाम्नोऽसंज्ञाविषया10 च्छेषेऽर्थे णः प्रत्ययो भवति । अणोऽपवादः । पौर्वशालः, पौर्वशाला । आपरशालः, आपरशाला । अमाम्न इति किम् १ पूर्वेषुकामशमी नाम ग्रामः । तस्यां भवः पूर्वेषुकामशमः ! पवमपरैषुकामशमः । पूर्वकार्ष्णमृत्तिका । अपर15 कार्ष्णमृत्तिका । 'प्राग्ग्रामाणाम्' [ ७.४.१७.] इत्युत्तरपदवृद्धिः ||२३|| श० म० न्यासानुसन्धानम् दिक० । अनाम्न इति नाम्न एवं विशेषणम् । तस्य व्याख्यामाह - असंज्ञाविषयादिति । संज्ञाविषयभूतो यो दिक्पूर्वपदशब्दस्तम्न 20 स्यादिति यावत् । अणोऽपवाद इति । स्वाभाविकस्य शैषिकस्याण इति भावः । णाणोः रूपे स्त्रियां विशेषो भवतीति स्त्रीलिङ्गरूपाप्यप्युदाहरति । पूर्वस्यां पूर्वदिकू स्थितायां शालायां भव इति विग्रहे "दिगधिकं संज्ञा ० " [३.१.९८.] इति समासे सति प्रत्ययोत्पत्तिः । स्त्रियामाप् 25 पौशालेति । अनाम्न इति किमिति । दिकूपूर्वपदस्य शब्दस्यावध्यपेक्षया प्रयोगान्नामत्वासंभव इति विशेषणमिदमव्यावर्तकमित्यभिमानेन प्रश्नः । अस्ति तादृशं नाम (संज्ञाबाधकं पदं ) प्रसिद्धमित्याशयेन प्रत्युदाहरतिपूर्वेषु कामशमीनाम ग्राम इत्यादिना । तथाऽत्र पूर्वा 30 पूर्वदिगूभवा या इषुकामशमीति विग्रहः । तथा च दिक्पूर्वपदसंज्ञात्वमिति स्पष्टम् । अत्र भवार्थे णः, "प्रागप्रामाणाम् " [ ७.४.१७.] इत्युत्तरपदवृद्धिः ॥६।३।२३॥ [ पा० ३ ० २४. प्राप्तस्तदपवादे 'वृजिमत्राद् देशात्कः' (६.३. ३७.] इति के प्राप्तेऽञ्चचनम् । केवलादेव मद्रादककविधिरिति चेत् तहींदमेव ज्ञापकं 40 सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधेः । तेन सुपाञ्चालकः, सर्वपाञ्चालकः अर्धपाञ्चालकः, पूर्वपाञ्चालकः । अपरपाञ्चालकः, सुमागधकः, सर्वमागधकः, सुवृजिकः, समुत्रकः इत्यादि सिद्धम् ||२४|| मद्रान् ||६|३|२४ ॥ 35 त० प्र० - मद्रान्तादु दिक्पूर्वपदाच्छेषेऽर्थेऽप्रत्ययो भवति । पूर्वेषु मद्रेषु भवः पौर्वमद्रः, पौर्वमत्री | 'बहुविषयेभ्यः' (६.३.४४.] इस्यक 45 श० म० न्यासानुसन्धानम्-मद्रा०| दिक्पूर्वपदादित्यनुवर्तते । मद्रशब्दस्योत्तरपदत्वं दिकूपूर्वपदत्वे स्पष्टमिति समुदायस्य मद्रान्तवं "विशेषणमन्तः" ७.४.११३. ] इति परिभाषया लब्धम् । तदाह-मद्रान्ताद् दिक्पूर्वपदादित्यादिना । उदाहरति- पूर्वेषु मद्रेषु भव 50 इति । पूर्वशब्दः पूर्वदिग्भवार्थः । ननु कोऽर्थोऽनेन सूत्रेण arent fierina पौर्वमद्र इत्यादीनां सिद्धिः स्यादेवेत्याशङ्कच समाधातुमाह - “बहुविषयेभ्यः " [६.३.४५.] इत्यकञ् प्राप्त इत्यादिना । अयमाशयः - मद्राणां निवासभूते देशे बहुवचनान्ता मद्रशब्दः, तस्माच्छैषिकेऽर्थे 55 सामान्य विहितमणं बाधित्वा “बहुविषयेभ्यः” [६.३.४५.] इत्यकञ् प्राप्तः । ततोऽपि विशेषविहितत्वेन “वृजिमद्राद् देशात् ०" [६.३.३८. ] इति कः प्राप्तः, दिक्पूर्वपदमद्रान्तात् प्रत्ययविधायकत्वेनायं ततोऽपि विशेषविधिः इति तं प्रबाध्यायं प्रवर्तत इत्यञ् भवति । अन्यथा 60 पूर्वमद्रक इत्येव स्यात्, न तु पौर्वभद्र इति । ननु “बहुविषयेभ्यः [ ६.३.४५. ], "वृजिमद्राद् देशात्कः " [६.३.३८.] इति च सूत्रद्वयं केवलान्मद्रशब्दादेव प्रत्ययं विधास्यति, पूर्वमद्रशब्दात् तु शैषिकोऽणेव भविष्यतीत्यत्रो विशिष्यविधानं व्यर्थमेवेति शङ्कते - केवला- 65 देव मत्रादकञ् कविधिरिति चेदिति । उत्तरयति - तदमेव ज्ञापकं सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधेरिति । पूर्वोक्तरीत्या व्यर्थीभूतं सूत्रमिदं दिक्पूर्वादपि मद्रात् तदन्तविधिना प्रत्ययोत्पत्तिज्ञापनद्वारा एकदेशानुमत्या * सर्वार्धदिक्शब्देभ्यो 70 जनपदस्य दति तदन्तविधिविधायकन्यायं शापयतीति भावः । तथा च दिक्पूर्वपदान्मद्रान्तादपि “बहुविषयेभ्यः” [६.३.४५. ] "वृजि-मद्रदेशात् कः" [६.३.३८.] इत्यनयोः प्राप्तिसंभवात् पूर्वमद्रकः, पौर्वमद्रक इत्यनयोरापच्या तारणाय सूत्रमिदं स्त्रांशे चरितार्थम् । केवलं 79 । " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296