________________
कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते
૮૦
रूप्य इति ईषदुनो रूप्यो 'बहुरूप्य' इति "नाम्नः मागूबहुर्वा" [७.३.१२.] इति बहुप्रत्यये प्राविहिते सति भवति । अयमपि च रूप्यान्तः इति तस्मादपि णः स्यात् । तथा च तदन्तस्य स्त्रियां दीर्न स्यात् । इष्यते त्वणु, $ तेन बाहुरूप्यी इति भवति । तदेतदाह अन्तग्रहणेनैव सिद्धे उत्तरपदग्रहणं बहुप्रत्ययपूर्व निवृत्त्यर्थमिति |६|३|२२||
दिक्पूर्वपदादनाम्नः ||६|३|२३||
० प्र०- दिक्पूर्वपदादनाम्नोऽसंज्ञाविषया10 च्छेषेऽर्थे णः प्रत्ययो भवति । अणोऽपवादः । पौर्वशालः, पौर्वशाला । आपरशालः, आपरशाला । अमाम्न इति किम् १ पूर्वेषुकामशमी
नाम ग्रामः । तस्यां भवः पूर्वेषुकामशमः ! पवमपरैषुकामशमः । पूर्वकार्ष्णमृत्तिका । अपर15 कार्ष्णमृत्तिका । 'प्राग्ग्रामाणाम्' [ ७.४.१७.] इत्युत्तरपदवृद्धिः ||२३||
श० म० न्यासानुसन्धानम् दिक० । अनाम्न इति नाम्न एवं विशेषणम् । तस्य व्याख्यामाह - असंज्ञाविषयादिति । संज्ञाविषयभूतो यो दिक्पूर्वपदशब्दस्तम्न 20 स्यादिति यावत् । अणोऽपवाद इति । स्वाभाविकस्य शैषिकस्याण इति भावः । णाणोः रूपे स्त्रियां विशेषो भवतीति स्त्रीलिङ्गरूपाप्यप्युदाहरति । पूर्वस्यां पूर्वदिकू स्थितायां शालायां भव इति विग्रहे "दिगधिकं संज्ञा ० " [३.१.९८.] इति समासे सति प्रत्ययोत्पत्तिः । स्त्रियामाप् 25 पौशालेति । अनाम्न इति किमिति । दिकूपूर्वपदस्य शब्दस्यावध्यपेक्षया प्रयोगान्नामत्वासंभव इति विशेषणमिदमव्यावर्तकमित्यभिमानेन प्रश्नः । अस्ति तादृशं नाम (संज्ञाबाधकं पदं ) प्रसिद्धमित्याशयेन प्रत्युदाहरतिपूर्वेषु कामशमीनाम ग्राम इत्यादिना । तथाऽत्र पूर्वा 30 पूर्वदिगूभवा या इषुकामशमीति विग्रहः । तथा च दिक्पूर्वपदसंज्ञात्वमिति स्पष्टम् । अत्र भवार्थे णः, "प्रागप्रामाणाम् " [ ७.४.१७.] इत्युत्तरपदवृद्धिः
॥६।३।२३॥
[ पा० ३ ० २४.
प्राप्तस्तदपवादे 'वृजिमत्राद् देशात्कः' (६.३. ३७.] इति के प्राप्तेऽञ्चचनम् । केवलादेव मद्रादककविधिरिति चेत् तहींदमेव ज्ञापकं 40 सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधेः । तेन सुपाञ्चालकः, सर्वपाञ्चालकः अर्धपाञ्चालकः, पूर्वपाञ्चालकः । अपरपाञ्चालकः, सुमागधकः, सर्वमागधकः, सुवृजिकः, समुत्रकः इत्यादि सिद्धम् ||२४||
मद्रान् ||६|३|२४ ॥
35 त० प्र० - मद्रान्तादु दिक्पूर्वपदाच्छेषेऽर्थेऽप्रत्ययो भवति । पूर्वेषु मद्रेषु भवः पौर्वमद्रः, पौर्वमत्री | 'बहुविषयेभ्यः' (६.३.४४.] इस्यक
45
श० म० न्यासानुसन्धानम्-मद्रा०| दिक्पूर्वपदादित्यनुवर्तते । मद्रशब्दस्योत्तरपदत्वं दिकूपूर्वपदत्वे स्पष्टमिति समुदायस्य मद्रान्तवं "विशेषणमन्तः" ७.४.११३. ] इति परिभाषया लब्धम् । तदाह-मद्रान्ताद् दिक्पूर्वपदादित्यादिना । उदाहरति- पूर्वेषु मद्रेषु भव 50 इति । पूर्वशब्दः पूर्वदिग्भवार्थः । ननु कोऽर्थोऽनेन सूत्रेण arent fierina पौर्वमद्र इत्यादीनां सिद्धिः स्यादेवेत्याशङ्कच समाधातुमाह - “बहुविषयेभ्यः " [६.३.४५.] इत्यकञ् प्राप्त इत्यादिना । अयमाशयः - मद्राणां निवासभूते देशे बहुवचनान्ता मद्रशब्दः, तस्माच्छैषिकेऽर्थे 55 सामान्य विहितमणं बाधित्वा “बहुविषयेभ्यः” [६.३.४५.] इत्यकञ् प्राप्तः । ततोऽपि विशेषविहितत्वेन “वृजिमद्राद् देशात् ०" [६.३.३८. ] इति कः प्राप्तः, दिक्पूर्वपदमद्रान्तात् प्रत्ययविधायकत्वेनायं ततोऽपि विशेषविधिः इति तं प्रबाध्यायं प्रवर्तत इत्यञ् भवति । अन्यथा 60 पूर्वमद्रक इत्येव स्यात्, न तु पौर्वभद्र इति ।
ननु “बहुविषयेभ्यः [ ६.३.४५. ], "वृजिमद्राद् देशात्कः " [६.३.३८.] इति च सूत्रद्वयं केवलान्मद्रशब्दादेव प्रत्ययं विधास्यति, पूर्वमद्रशब्दात् तु शैषिकोऽणेव भविष्यतीत्यत्रो विशिष्यविधानं व्यर्थमेवेति शङ्कते - केवला- 65 देव मत्रादकञ् कविधिरिति चेदिति । उत्तरयति - तदमेव ज्ञापकं सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधेरिति । पूर्वोक्तरीत्या व्यर्थीभूतं सूत्रमिदं दिक्पूर्वादपि मद्रात् तदन्तविधिना प्रत्ययोत्पत्तिज्ञापनद्वारा एकदेशानुमत्या * सर्वार्धदिक्शब्देभ्यो 70 जनपदस्य दति तदन्तविधिविधायकन्यायं शापयतीति भावः । तथा च दिक्पूर्वपदान्मद्रान्तादपि “बहुविषयेभ्यः” [६.३.४५. ] "वृजि-मद्रदेशात् कः" [६.३.३८.] इत्यनयोः प्राप्तिसंभवात् पूर्वमद्रकः, पौर्वमद्रक इत्यनयोरापच्या तारणाय सूत्रमिदं स्त्रांशे चरितार्थम् । केवलं 79
।
" Aho Shrutgyanam"