Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
पा० ४ ० ९०. ] रवि - द्वौ पन्थानौ यातीति । अत्र कृते " ऋक्पूः पथ्यपोऽत् " [ ७.३.७६ ] इति समा'सान्तेऽति कृते तत इटि अवलोपे सति पथिक इति भवति । एत५५ वेकारोवारणमित्याह- कटमकृत्या 5 इकवचनमित्यादि । समासान्ताश्च प्रत्ययाः सप्तमाध्याय - तृतीयपादविहिता इति अस्मादिकटः पराः इति तम्प्रवृत्त्युत्तरमेवेकट् प्रवर्तते । एवं च कृष्टि कृते पथकू इत्येव स्थान पथिक इति भावः ||६|४१८८।।
श्री सिद्धहेमचन्द्र शब्दानुशासने षष्ठोऽध्यायः ।
२९५
तद्धितार्थे समासे | निवृत्त्यर्थं नित्यग्रहणं स्यात् । एतदप्यप्रयोजनं वाक्यस्यापि शिष्टेः प्रयुक्तत्त्वत् । न च नित्यग्रहणं पन्थादेशरूपविकारेण संबध्यते - पन्थादेशो नित्यं णप्रत्ययविषये एव भवति, 40 न तु तेन वाक्यं करणीयम् इति, अन्यथा सर्वविषयं पन्यशब्दस्य साधुत्वं स्यात् प्रत्ययवधानं स्वन्यः चीयमानं विज्ञायेतेति वाच्यम्, सन्नियोग शिष्टानामन्यतरापाये उभयोरप्यपाय इति न्यायात् । अयमर्थः - विशेषप्रयोगसिद्धये ययोरेकस्मिन् विषये विधिस्तयोस्तद्विषयादन्यत्रकस्या- 45 प्रयोगे परोऽपि न प्रयुज्यते इति णाभावे पन्थादेशस्य प्रयोगाप्राप्तेः इति न तदर्थमपि नित्यग्रहणमिति फलाभावात् प्रत्याख्येयमेव तदिति । यदि च नित्यमित्यस्य यौनःपुन्यर्थित्वं मन्यते, इग्यते च तादृशार्थ एवं पान्थ इत्यस्य प्रयोगः, यो हि पुनः पुनः पन्थानं गच्छति स 50 पान्थ इति, तदा नित्यग्रहणमस्तु इति वृत्तिकारादीनां हृदयं तच भाष्यविरुद्धमिति भाष्य- द दीपद्यते निरूपितं नागेशेनेति ॥
नित्यं णः पन्थच ||६|४१८९||
त० प्र० -- नित्यमिति प्रत्ययार्थविशेषणम् । पथिनशब्दाद् द्वितीयान्तान्नित्यं यात्यार्थे णः प्रत्ययो भवति, पथिनशब्दस्य च पन्थादेशः । पन्थानं नित्यं याति पान्थः पान्था श्री । द्वौ पन्थानौ नित्यं याति वैपन्थः पन्था श्री । 15 नित्यमिति किम् ? पथिकः ॥८९॥
10
।
श०म० न्यासानुसन्धानम् नित्यं ० । सन्निधानाद् नित्यमित्यस्य प्रत्ययेन सह संबन्यमाशङक्य तस्यानिष्टत्वेन प्रत्ययार्थे सह संबन्धमाह - नित्यमिति प्रत्ययार्थविशेषणमिति । नित्यमिति यदुच्यते तत् 20 प्रत्ययार्थस्य यात. यस्य पूर्वतः प्राप्तस्य विशेषणं व्यावर्तकं तथा च नित्यं यातीति प्रत्ययार्थः संजातः । अत्रायमभिसन्धिः, प्रत्ययविधिविशेषणत्वे, पन्थानं यातीत्यर्थे 'पान्थ' इत्येव रूपं नित्यं स्यात्, न तु पूर्वसूत्रसिद्धं पथिक इति रूपम्, ततश्च पूर्वसूत्रस्य वैयर्थं स्यात्, 25 तच नोचितम्, स्वस्यैव सूत्रस्य सूत्रान्तरेण वैयर्थ्यापादनस्याचार्यशैलीविरुद्धत्वात् ।
पन्थानं नित्यं यातीति । नित्यमित्यस्य प्रतिदिनमित्यर्थः, न तु सर्वकालावच्छेदेनेति तथाऽर्थस्यासंभवात् । 55 खियामापू पान्धा खीति । संख्यादेस्तदन्तविधेराह - धौ पन्थानौ गच्छतीति । तदितार्थ समासे, समासान्तेऽति सत्यपि पन्यादेशः स्यादेव एकदेशविकृतस्यानन्यत्वात् । नित्यमिति कि.मिति १ प्रयार्थं नित्यमिति विशेषणमव्यावर्तकमिति पृच्छार्थः । पथिक इति । कदाचिद् ग्रात्यर्थे 60 इकलेव भवति, न णसन्नियोगवान् पन्थादेशः । नित्यमित्यस्याभावे चार्य विषयविभागो न स्यात् नित्यमिति सत्वे नित्थं याति पान्थ इति प्रयोगोऽन्यत्र पथिक इति ।
।
अथ पूर्वसूत्रारम्भसामर्थ्यात् तदपि रूपं स्यादेवेति चेत् तर्हि नित्यमित्यस्यैव वैयर्थमिति सर्वसामजस्याय व्यवहितेनापि प्रत्ययाधनेव संबन्धो न तु सन्निहितेन प्रत्यये30 नेति । "पन्थो ण नित्यम्” [पा. सू. ५.१.७६ ] इति सूत्रे महाभाष्ये तु नित्यग्रहणं प्रत्याख्यातम् । तत्र कैटेनेत्थमुक्तम्, नित्यग्रहणं प्रत्ययान्तरनिवृत्यर्थं तावदिह न भवति । पूर्वोक्तः कन् (स्वमते इकटू) प्रत्ययश्व विधानसामर्थ्यात् स्यादेव अन्यस्य च प्राप्तिरेव नेति 35 प्रत्ययार्थविशेषणमपि न, पन्थानं नित्यं गच्छतीति यद्यप्यर्थः संभवति, तथापि नात्रैवार्थे पान्यशब्दस्य प्रयोग इष्यते, कदाचिद् गच्छत्यपि तस्य प्रयोगात् ।
बाक्य
यद्यपि कोशेषु पान्थ-पकियो: पर्यायतयैव पाठो दृश्यते, "तथाहि - अध्यनीनोऽध्वगोऽध्वन्यः, पान्थः पथिकः" 65 इत्यपि [ इत्यमरः, २.८.१७.] तथापि शास्त्रव्यवस्थया द्वयोरपि विषयविभागः आवश्यक एव । यथा अध्वानमदंगामी इत्यर्थे " अध्यान येनौ " [ ७.१.१०३.] इति सूत्रेणाध्वन्यः' अध्वनीन इति साध्येते, परमुक्त्तकोशानुसारम् अध्वगोऽपि तत्पर्याय एवेति न तेन शास्त्रस्य वयर्थम्, 70 कोशस्य सामान्यार्थमादाय प्रवृत्तः, शास्त्रेण तु सूक्ष्मोऽर्थभेदोऽपि प्रतिपादनीय एवेत्यलमतिविस्तरेणेति || ६|४|८९|| शकूत्तर- कान्ताराज-वारि-स्थल- जङ्गलादेस्तेनाहृते च || ६ |४| ९०
त० प्र० शङ्कु उत्तर कान्तार अज 75
"Aho Shrutgyanam"

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296