Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 174
________________ कलिकाल सर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीत १६२ लोकायतिक इत्येवं रूपं दृश्यते । तस्य सिद्धिप्रकार माहलोकायतिका इति तु न्यायादिपाठादिति । तत्र कस्यापि विशेषस्य विधानाभावेन तदर्थं निपातनारम्भस्यानावश्यकत्वमिति भावः ||६|२|१२२॥ अनुत्राणादिन् ||६||१२३|| अनुब्राह्मणशब्दाद् वेत्त्यधीते वेत्यर्थे इनप्रत्ययो भवति । ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणम् । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् । सदृशार्थे ऽव्ययी10 भाषः । तद् वेत्यधीते वातुब्राह्मणी । अनुब्राह्मणिनौ । अनुब्राह्मणिनः । मत्वर्थीयेनैवेना सिद्धे अनभिधानाच्च इकस्याप्रवृत्तावण्बाधनार्थमिनो विधानम् ||१२३|| 30 श० म० न्यासानुसन्धानम् - अनु० 1 अनु15 ब्राह्मणशब्दं विवृणोति ब्रह्मणा प्रोक्को ग्रन्थेो ब्राह्मणमिति प्रोक्तार्थेऽणि अन्त्यस्वरादिलोपाभावे आदिस्वरवृद्धौ ब्राह्मणमिति । ब्राह्मणेन सदृशमित्यर्थेऽव्ययीभावसमासेऽनुब्राह्मणमिति -- तदाह-सदृशार्थेऽव्ययीभाव इति । ततोऽश्वेतृ-वेदित्रर्थयोरिन्प्रत्ययः, अनुब्राह्मणीति । स्त्रीत्वाशङ्का20 निवृत्यर्थ रूपनिर्देशः अनुब्राह्मणिनावित्यादि । ननु अध्ययन - वेदनयोः स्वत्वविवक्षया तदस्यास्तीत्यर्थे मत्वर्थीयेनैव रूपसिद्धिरितीन् विधानं व्यर्थम्, न च सदर्थे इफस्यापि संभवात् तदभावार्थ विशिष्येनो विधानमिति वाच्यम्, तस्याध्येतृ-वेदित्रर्थयोरभिधानाभावादिति - 25 चेदाह - अणबाधनार्थमिनो विधानमिति । मत्वर्थीय इन् सामान्यविहित इति विशिष्याध्येतृ-वेदित्रर्थयोर्विहितोऽण् तंबावेतेति तद्बाधनार्थं विशिष्येनो विधानमावश्यकमिति भावः ||६|२| १२३॥ षष्टेः पथ इकटू ॥६२॥१२४|| शत षष्टि इत्येताभ्यां परो यः पथिनशब्दस्तदन्ताद् वेत्यर्थे इकट् प्रत्ययो भवति । शतपथिकः, शतपथिकी । षष्टिपथिकः, षष्टिपथिकी ||દરા 35 श० म० न्यासानुसन्धानम् - शत० । रिचात् स्त्रियां ङीरिति शतपथिकी षष्टिपथिकीति भवति ||६|| १२४॥ पा० २ ० १२६. पदोत्तरपदेभ्य इकः ||६|२| १२५ || पदशब्द उत्तरपदं यस्य तस्मात् पदशब्दात् पदोत्तरपदशब्दाच्च वेस्यधीते वेत्यर्थे इकः प्रत्ययो भवति । पूर्वपदिकः, उत्तरपदिकः । 40 पूर्वपदिका, उत्तरपदिका । पद-पदिकः, पदिका । पदोत्तरपदिकः, पदोत्तरपदिका । बहुवचनं सर्वभङ्गपरिग्रहार्थम् ॥१२५॥ श० म० न्यासानुसन्धानम् - पदो० । पदं -पदशब्दः, उत्तरं - उत्तरपदं यस्य तलदोत्तरपदम् ; पदोत्तरपदं 45 च पदं च पदोत्तरपदे । पदोत्तरपदे च पदोत्तरपदं च ( पदोत्तरपदशब्दख) इति पदोत्तरपदानि एकशेषेण रूपसिद्धिः तेभ्य इति पदोत्तरपदेभ्यः-इत्येवंविवक्षया सूत्रे निर्देश इति, तथैव विवृणोति - पदशब्द उत्तरपदं यस्येत्यादिना । अत्र ' पदोत्तर 'शब्दार्थकपदोत्तरशब्दस्य पदशब्देन सह 50 समाहारे तु 'पदोत्तरपदम्' इति स्यात्, तस्य पुनः पदोतरपदशब्देनैकशेषे द्विवचनापत्तिः तथा च प्रकृतार्थलाभो न स्पादिति पूर्वोक्तक्रमेण इतरेतरयोगद्वन्द्व एव साधुः । पदोत्तरपद-पद-पदोत्तरपदशब्दानामेकशेषस्तु विरूपत्वादप्राप्तः, सौत्रत्वात् तदाश्रयणात् तु वरमुक्तरूपेणैव विग्रहा - SS श्रयणम्, तस्यागतिकगतिस्वात् । एतादृशविग्रहे प्रमाणं बहुवचननिर्देश एवेति वक्ष्यति । उदाहरति--पूर्वपदिक इत्यादिना ! पूर्वपदम् उत्तरपदम् पदम् पदोत्तरपदं चाधीते वेद वेति विग्रहः । ननु समाहारद्वन्द्वमाश्रित्येकवचननिर्देशस्य स्त्रशैली - 60 सिद्धत्वेन किमर्थमिह बहुवचननिर्देश इति चेदाह - बहुवचनं सर्वविधभङ्गीपरिग्रहार्थमिति । यदि ह 'पदोत्तरपद' पदं पदशब्दोत्तरपदकशब्दपरमेव, स्वरूपतः 'पदोचरपद' - परमेव वा स्यात्, तर्हि एकवचनमेव कृतं स्यात् कोऽर्थो बहुवचनेन ? बहुवचनं च बहूनां संग्रहार्थमेवेति 65. पूर्वरीत्येकशेषेण पदोत्तरपदस्य शब्दस्य, पदशब्दस्य, पदोचरपदशब्दस्य च संग्रह इति भावः । सर्वसंग्रहार्थमित्यस्य सर्व: 'पदोत्तरपद' शब्दे सम्भावितोऽखिलो भङ्गः पदच्छेदः प्रोक्तप्रकारस्तस्य संग्रहार्थमित्यर्थः ॥ ६२॥१२५॥ पद क्रम - शिक्षा-मीमांसा-साम्नोऽकः |६|२|१२६|| पद क्रम - शिक्षा-मीमांसा सामन् इत्येतेभ्यो तद् वेत्यधीते वेत्यर्थेऽकः प्रत्ययो भवति । "Aho Shrutgyanam" 70

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296