________________
कलिकाल सर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीत
१६२
लोकायतिक इत्येवं रूपं दृश्यते । तस्य सिद्धिप्रकार माहलोकायतिका इति तु न्यायादिपाठादिति । तत्र कस्यापि विशेषस्य विधानाभावेन तदर्थं निपातनारम्भस्यानावश्यकत्वमिति भावः ||६|२|१२२॥
अनुत्राणादिन् ||६||१२३|| अनुब्राह्मणशब्दाद् वेत्त्यधीते वेत्यर्थे इनप्रत्ययो भवति ।
ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणम् । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् । सदृशार्थे ऽव्ययी10 भाषः । तद् वेत्यधीते वातुब्राह्मणी । अनुब्राह्मणिनौ । अनुब्राह्मणिनः । मत्वर्थीयेनैवेना सिद्धे अनभिधानाच्च इकस्याप्रवृत्तावण्बाधनार्थमिनो विधानम् ||१२३||
30
श० म० न्यासानुसन्धानम् - अनु० 1 अनु15 ब्राह्मणशब्दं विवृणोति ब्रह्मणा प्रोक्को ग्रन्थेो ब्राह्मणमिति प्रोक्तार्थेऽणि अन्त्यस्वरादिलोपाभावे आदिस्वरवृद्धौ ब्राह्मणमिति । ब्राह्मणेन सदृशमित्यर्थेऽव्ययीभावसमासेऽनुब्राह्मणमिति -- तदाह-सदृशार्थेऽव्ययीभाव इति । ततोऽश्वेतृ-वेदित्रर्थयोरिन्प्रत्ययः, अनुब्राह्मणीति । स्त्रीत्वाशङ्का20 निवृत्यर्थ रूपनिर्देशः अनुब्राह्मणिनावित्यादि ।
ननु अध्ययन - वेदनयोः स्वत्वविवक्षया तदस्यास्तीत्यर्थे मत्वर्थीयेनैव रूपसिद्धिरितीन् विधानं व्यर्थम्, न च सदर्थे इफस्यापि संभवात् तदभावार्थ विशिष्येनो विधानमिति वाच्यम्, तस्याध्येतृ-वेदित्रर्थयोरभिधानाभावादिति - 25 चेदाह - अणबाधनार्थमिनो विधानमिति । मत्वर्थीय
इन् सामान्यविहित इति विशिष्याध्येतृ-वेदित्रर्थयोर्विहितोऽण् तंबावेतेति तद्बाधनार्थं विशिष्येनो विधानमावश्यकमिति भावः ||६|२| १२३॥
षष्टेः पथ इकटू ॥६२॥१२४||
शत षष्टि इत्येताभ्यां परो यः पथिनशब्दस्तदन्ताद् वेत्यर्थे इकट् प्रत्ययो भवति । शतपथिकः, शतपथिकी । षष्टिपथिकः, षष्टिपथिकी ||દરા
35
श० म० न्यासानुसन्धानम् - शत० । रिचात् स्त्रियां ङीरिति शतपथिकी षष्टिपथिकीति भवति ||६|| १२४॥
पा० २ ० १२६.
पदोत्तरपदेभ्य इकः ||६|२| १२५ ||
पदशब्द उत्तरपदं यस्य तस्मात् पदशब्दात् पदोत्तरपदशब्दाच्च वेस्यधीते वेत्यर्थे इकः प्रत्ययो भवति । पूर्वपदिकः, उत्तरपदिकः । 40 पूर्वपदिका, उत्तरपदिका । पद-पदिकः, पदिका । पदोत्तरपदिकः, पदोत्तरपदिका । बहुवचनं सर्वभङ्गपरिग्रहार्थम् ॥१२५॥
श० म० न्यासानुसन्धानम् - पदो० । पदं -पदशब्दः, उत्तरं - उत्तरपदं यस्य तलदोत्तरपदम् ; पदोत्तरपदं 45 च पदं च पदोत्तरपदे । पदोत्तरपदे च पदोत्तरपदं च ( पदोत्तरपदशब्दख) इति पदोत्तरपदानि एकशेषेण रूपसिद्धिः तेभ्य इति पदोत्तरपदेभ्यः-इत्येवंविवक्षया सूत्रे निर्देश इति, तथैव विवृणोति - पदशब्द उत्तरपदं यस्येत्यादिना । अत्र ' पदोत्तर 'शब्दार्थकपदोत्तरशब्दस्य पदशब्देन सह 50 समाहारे तु 'पदोत्तरपदम्' इति स्यात्, तस्य पुनः पदोतरपदशब्देनैकशेषे द्विवचनापत्तिः तथा च प्रकृतार्थलाभो न स्पादिति पूर्वोक्तक्रमेण इतरेतरयोगद्वन्द्व एव साधुः । पदोत्तरपद-पद-पदोत्तरपदशब्दानामेकशेषस्तु विरूपत्वादप्राप्तः, सौत्रत्वात् तदाश्रयणात् तु वरमुक्तरूपेणैव विग्रहा - SS श्रयणम्, तस्यागतिकगतिस्वात् । एतादृशविग्रहे प्रमाणं बहुवचननिर्देश एवेति वक्ष्यति । उदाहरति--पूर्वपदिक इत्यादिना ! पूर्वपदम् उत्तरपदम् पदम् पदोत्तरपदं चाधीते वेद वेति विग्रहः ।
ननु समाहारद्वन्द्वमाश्रित्येकवचननिर्देशस्य स्त्रशैली - 60 सिद्धत्वेन किमर्थमिह बहुवचननिर्देश इति चेदाह - बहुवचनं सर्वविधभङ्गीपरिग्रहार्थमिति । यदि ह 'पदोत्तरपद' पदं पदशब्दोत्तरपदकशब्दपरमेव, स्वरूपतः 'पदोचरपद' - परमेव वा स्यात्, तर्हि एकवचनमेव कृतं स्यात् कोऽर्थो बहुवचनेन ? बहुवचनं च बहूनां संग्रहार्थमेवेति 65. पूर्वरीत्येकशेषेण पदोत्तरपदस्य शब्दस्य, पदशब्दस्य, पदोचरपदशब्दस्य च संग्रह इति भावः । सर्वसंग्रहार्थमित्यस्य सर्व: 'पदोत्तरपद' शब्दे सम्भावितोऽखिलो भङ्गः पदच्छेदः प्रोक्तप्रकारस्तस्य संग्रहार्थमित्यर्थः ॥ ६२॥१२५॥
पद क्रम - शिक्षा-मीमांसा-साम्नोऽकः
|६|२|१२६||
पद क्रम - शिक्षा-मीमांसा सामन् इत्येतेभ्यो तद् वेत्यधीते वेत्यर्थेऽकः प्रत्ययो भवति ।
"Aho Shrutgyanam"
70