Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 170
________________ कलिकाल सर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते १५८ प्रत्ययस्य विधानात् सम्भावितानर्थानाह - ' तिथिः, क्रियाभूमिः, क्रीडा वेति । कस्याश्चित् तिथौ, कुत्रापि स्थाने, कस्यामपि क्रीडादिक्रियायां च श्येन - तिलयोः पातस्य संभावितत्वात् ता एवं विशेष्यत्वेन योजनीया इति भावः 5 ||६२११५|| प्रहरणात् क्रीडायां णः ||६|२| ११६ || प्रहरणवाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे क्रीडायां णः प्रत्ययो भवति । दण्डः प्रहरणं अस्यां क्रीडायां दाण्डा । 10 एवं मोष्टा पादा क्रीडा । प्रहरणादिति किम् माला भूषणमस्यां क्रीडायाम् । क्रीडायामिति किम ? खड्गः प्रहरणमस्यां सेनायाम् । यथाद्रोहेण घात-प्रतिघातौ स्वातां सा क्रीडा । 'भावघञोऽस्यां णः [६.२.११४.] इत्यनन्तरो 15 णो नानुवर्तते क्रीडाया अर्थान्तरस्याद् यथा पूर्वसूत्रोपात्त: समूहाद्यर्थेषु ततो यथाविहितमेव प्रत्ययो भवेदितीह पुनर्प्रहणम् ||११६|| श० म० न्यासानुसन्धानम् प्रहर० । प्रहियते saति प्रहरणमिति करणेऽने प्रहरणशब्द आयुधवाचकः । 20 तद्वाचकात् प्रथमान्तात् प्रत्ययविधिः । यद्यपि पूर्वतः सेति प्रहरणादिति स्त्रीत्वविशिष्टं प्रथमान्तमनुवृत्तम्, तथा नपुंसकनिर्देशेन तस्मिन् पदे लिङ्गस्याविवक्षितत्वं विशेयम् । दण्डः, मुष्टिः पादः प्रहरणमस्यां क्रीडायामित्येवंरूपेण विग्रहः । प्रत्युदाहरणार्थं पृच्छति-प्रहरणादिति । 25 किम् ? प्रायः क्रोडायां तादृशमेव वस्तु प्रयुज्यते यत् प्रहरणतयेोपयुज्यते इत्यव्यावर्तक मिदमित्यभिसन्धिः । प्रहरणादन्यदपि क्रीडासम्वद्ध मित्याह - माला भूषणमस्यामिति । तथा च नात्र प्रत्यय इष्ट इति भावः । क्रीडाया विशेष्यत्वेनेापादानस्य व्यावर्त्य दर्शयितुमाह- क्रीडा 30 यामिति किमिति । प्रत्युदाहरति--खड्गप्रहरणमस्यां सेनायामिति । अत्र न प्रत्यय इन इति भावः । ननु सति प्रहारे को विशेषः ? क्रीडा-सेनयोरिति चेदाह - पत्राद्रोहेण घातप्रतिघातावित्यादि । सेनायां परस्परं द्रोहिणौ प्रति35 पक्षपातनाय घात-प्रतिघातौ विदधतः, क्रीडायां तु स्वमनोरञ्जनाय, जनमनोरञ्जनाय वा फौशलं प्रदर्शयितुं घातप्रतिघातौ भवत इति क्रीडा-सेनयोर्विशेष इति भावः । ननु पूर्वतो ग्रहणेऽनुवर्तमाने पुनर्णग्रहणं किमर्थम् ? न [ पा० २. सू० ११७. च" नाता- तैलम्पता " [ ६.२.११५.] इति सूत्रेण णग्रहणस्य चिच्छेद इति वाच्यम्, तस्यापि संनियोगेनैव 40 मान्तनिपातनविधायकत्वेन प्रकरणविच्छेदाद् इति शङ्कां मनसिकृत्याह – “ भाव-घञोऽस्यां णः " १६.२.११४.] इत्यनन्तरोणो नानुवर्तत इति । कुत इत्याह-क्रीडाया अर्थान्तरत्वाद् इति । क्रीडारूपेणान्येनार्थेन विच्छेदे सूचिते प्रकरण विच्छेदावगतेः प्रत्ययो नानुवर्तत 45 इति भावः । अत्रार्थे दृष्टान्तमाह-यथा पूर्वसूत्रोपात्तः समूहापथेष्विति । अयमाशयः यथा 'चन्द्रयुक्तात् काले” [ ६.२.६.] इत्यर्थे विहितः, “श्रवणाश्वत्थान्नान्यः” [६.१.८. ] इति अः प्रत्ययोऽनन्तरे " षष्ठया: समूहे [६.२.१.] इति सूत्रे, यथा वा पुरुषात् कृतहित - 50 वधविकारे " [६.२.२९] इति विहित एयञ अनन्तरे " विकारे " [ ६.२.३० | इत्यत्र नानुवर्तते । तत्र को हेतुः ? अर्थान्तरत्वमेव | एवं चेहासति प्रत्ययनिर्देशे " प्रागूजितादणू” (६.१.१३.] इति सामान्यतोऽधिकृताऽण्, विशिष्य वा तत्तन्नाम्नो विक्षितः प्राग्जितीयः प्रत्यय 55 एव स्यान्न तु ण इति तद्विवानार्थमिह सूत्रे तद्ग्रहणमावश्यकमिति || ६|२| ११६|| 66 66 "7 तद्वेयधीते ||६|२१११७॥ तदिति द्वितीयान्ताद् वेत्ति अधीते वेत्येतयोरर्थयोर्यथाविहितं प्रत्ययो भवति । मुहूर्त वेत्ति मौहूर्तः । एवमौत्पातः । नैमित्तः केचित् तु मुहुर्त निमित्तशब्दौ न्यायादौ पठन्ति तन्मते मौहूर्तिकः नैमित्तिकः । छन्दोऽधीते छान्दसः । व्याकरणं वेत्त्यधीते वा वैयाकरणः। नैरुक्तः । घटं वेत्ति पटं वेत्तीत्यादावनभिधा- 65 नान्न भवति । केचित् तु वेदनाध्ययनयेोरेकविषयतायामे बेच्छन्ति । तम्मते अग्निष्टोमं यज्ञं वेत्तीत्यादावपि प्रत्ययो न भवति ॥११७॥ "Aho Shrutgyanam" 60 श० म० न्यासानुसन्धानम् तद्० । वेस्यधीत इति सकर्मक क्रियाया अर्थत्वेन निर्देशात् तदितीह द्वितीया - 70 न्तमिति लभ्यते, अन्यथा " तदत्रास्ति ” [६.२.७०.] इत्यत्रेव प्रथमान्तमंत्र कुतो न स्यात् ? सूत्रे वेत्ति, अधीते इत्यनयोः सह निर्देशात् सदैव भयोरर्थयोः प्रत्यय उत पृथक् पृथगिमात्रर्थावित्यसंशयायाह वेत्येतयोरर्थयोरिति तथा पृथगनयोरर्थयोः प्रत्ययविधानमिति लभ्यते । अत 75. एव ऋतुत्यादिशब्देभ्योऽपि प्रत्यय उत्पद्यते । अन्यथा

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296