________________
कलिकाल सर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते
१५८
प्रत्ययस्य विधानात् सम्भावितानर्थानाह - ' तिथिः, क्रियाभूमिः, क्रीडा वेति । कस्याश्चित् तिथौ, कुत्रापि स्थाने, कस्यामपि क्रीडादिक्रियायां च श्येन - तिलयोः पातस्य संभावितत्वात् ता एवं विशेष्यत्वेन योजनीया इति भावः 5 ||६२११५||
प्रहरणात् क्रीडायां णः ||६|२| ११६ || प्रहरणवाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे क्रीडायां णः प्रत्ययो भवति ।
दण्डः प्रहरणं अस्यां क्रीडायां दाण्डा । 10 एवं मोष्टा पादा क्रीडा । प्रहरणादिति किम् माला भूषणमस्यां क्रीडायाम् । क्रीडायामिति किम ? खड्गः प्रहरणमस्यां सेनायाम् । यथाद्रोहेण घात-प्रतिघातौ स्वातां सा क्रीडा । 'भावघञोऽस्यां णः [६.२.११४.] इत्यनन्तरो 15 णो नानुवर्तते क्रीडाया अर्थान्तरस्याद् यथा पूर्वसूत्रोपात्त: समूहाद्यर्थेषु ततो यथाविहितमेव प्रत्ययो भवेदितीह पुनर्प्रहणम् ||११६||
श० म० न्यासानुसन्धानम् प्रहर० । प्रहियते saति प्रहरणमिति करणेऽने प्रहरणशब्द आयुधवाचकः । 20 तद्वाचकात् प्रथमान्तात् प्रत्ययविधिः । यद्यपि पूर्वतः सेति प्रहरणादिति स्त्रीत्वविशिष्टं प्रथमान्तमनुवृत्तम्, तथा नपुंसकनिर्देशेन तस्मिन् पदे लिङ्गस्याविवक्षितत्वं विशेयम् । दण्डः, मुष्टिः पादः प्रहरणमस्यां क्रीडायामित्येवंरूपेण विग्रहः । प्रत्युदाहरणार्थं पृच्छति-प्रहरणादिति । 25 किम् ? प्रायः क्रोडायां तादृशमेव वस्तु प्रयुज्यते यत् प्रहरणतयेोपयुज्यते इत्यव्यावर्तक मिदमित्यभिसन्धिः । प्रहरणादन्यदपि क्रीडासम्वद्ध मित्याह - माला भूषणमस्यामिति । तथा च नात्र प्रत्यय इष्ट इति भावः । क्रीडाया विशेष्यत्वेनेापादानस्य व्यावर्त्य दर्शयितुमाह- क्रीडा 30 यामिति किमिति ।
प्रत्युदाहरति--खड्गप्रहरणमस्यां सेनायामिति । अत्र न प्रत्यय इन इति भावः । ननु सति प्रहारे को विशेषः ? क्रीडा-सेनयोरिति चेदाह - पत्राद्रोहेण घातप्रतिघातावित्यादि । सेनायां परस्परं द्रोहिणौ प्रति35 पक्षपातनाय घात-प्रतिघातौ विदधतः, क्रीडायां तु स्वमनोरञ्जनाय, जनमनोरञ्जनाय वा फौशलं प्रदर्शयितुं घातप्रतिघातौ भवत इति क्रीडा-सेनयोर्विशेष इति भावः । ननु पूर्वतो ग्रहणेऽनुवर्तमाने पुनर्णग्रहणं किमर्थम् ? न
[ पा० २. सू० ११७.
च" नाता- तैलम्पता " [ ६.२.११५.] इति सूत्रेण णग्रहणस्य चिच्छेद इति वाच्यम्, तस्यापि संनियोगेनैव 40 मान्तनिपातनविधायकत्वेन प्रकरणविच्छेदाद् इति शङ्कां मनसिकृत्याह – “ भाव-घञोऽस्यां णः " १६.२.११४.] इत्यनन्तरोणो नानुवर्तत इति । कुत इत्याह-क्रीडाया अर्थान्तरत्वाद् इति । क्रीडारूपेणान्येनार्थेन विच्छेदे सूचिते प्रकरण विच्छेदावगतेः प्रत्ययो नानुवर्तत 45 इति भावः । अत्रार्थे दृष्टान्तमाह-यथा पूर्वसूत्रोपात्तः समूहापथेष्विति । अयमाशयः यथा 'चन्द्रयुक्तात् काले” [ ६.२.६.] इत्यर्थे विहितः, “श्रवणाश्वत्थान्नान्यः” [६.१.८. ] इति अः प्रत्ययोऽनन्तरे " षष्ठया: समूहे [६.२.१.] इति सूत्रे, यथा वा पुरुषात् कृतहित - 50 वधविकारे " [६.२.२९] इति विहित एयञ अनन्तरे " विकारे " [ ६.२.३० | इत्यत्र नानुवर्तते । तत्र को हेतुः ? अर्थान्तरत्वमेव | एवं चेहासति प्रत्ययनिर्देशे " प्रागूजितादणू” (६.१.१३.] इति सामान्यतोऽधिकृताऽण्, विशिष्य वा तत्तन्नाम्नो विक्षितः प्राग्जितीयः प्रत्यय 55 एव स्यान्न तु ण इति तद्विवानार्थमिह सूत्रे तद्ग्रहणमावश्यकमिति || ६|२| ११६||
66
66
"7
तद्वेयधीते ||६|२१११७॥
तदिति द्वितीयान्ताद् वेत्ति अधीते वेत्येतयोरर्थयोर्यथाविहितं प्रत्ययो भवति ।
मुहूर्त वेत्ति मौहूर्तः । एवमौत्पातः । नैमित्तः केचित् तु मुहुर्त निमित्तशब्दौ न्यायादौ पठन्ति तन्मते मौहूर्तिकः नैमित्तिकः । छन्दोऽधीते छान्दसः । व्याकरणं वेत्त्यधीते वा वैयाकरणः। नैरुक्तः । घटं वेत्ति पटं वेत्तीत्यादावनभिधा- 65 नान्न भवति । केचित् तु वेदनाध्ययनयेोरेकविषयतायामे बेच्छन्ति । तम्मते अग्निष्टोमं यज्ञं वेत्तीत्यादावपि प्रत्ययो न भवति ॥११७॥
"Aho Shrutgyanam"
60
श० म० न्यासानुसन्धानम् तद्० । वेस्यधीत इति सकर्मक क्रियाया अर्थत्वेन निर्देशात् तदितीह द्वितीया - 70 न्तमिति लभ्यते, अन्यथा " तदत्रास्ति ” [६.२.७०.] इत्यत्रेव प्रथमान्तमंत्र कुतो न स्यात् ? सूत्रे वेत्ति, अधीते इत्यनयोः सह निर्देशात् सदैव भयोरर्थयोः प्रत्यय उत पृथक् पृथगिमात्रर्थावित्यसंशयायाह वेत्येतयोरर्थयोरिति तथा पृथगनयोरर्थयोः प्रत्ययविधानमिति लभ्यते । अत 75. एव ऋतुत्यादिशब्देभ्योऽपि प्रत्यय उत्पद्यते । अन्यथा