________________
कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते
१४४
तत्र यत्र क्रियाफलमपि कर्तयैव तिष्ठति स धातुरकर्मकः । यत्र च क्रियाफलं कर्तुरन्यत्र तिष्ठति स रुकर्मकः, यतः स्वार्थफलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम्, स्वार्थ
फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वमित्यकर्मक-सकर्मक5 भारवोः शाब्दिकाभिमतं लक्षणम् । तथा चोपसर्गरहितो वृत्धातुः यद्यपि फलसमानाधिकरणव्यापारवाचकस्तथापि उपसर्गसन्निधानेनात्र प्रेरणा विषयीभूतस्थित्यनुकूलव्यापारसंपत्त्या सकर्मकत्वं भवतीति कर्मणि कप्रत्ययः । शब्द कौस्तुभे चात्रान्तर्भाक्तिव्यर्थत्वेन सकर्मकत्वमुक्तम् ।
10
तृतीया चात्र पक्षे कर्तृकरणहेतुसाधारणी भवितुमर्हति । तथापि कर्तृकरणयोरेव तमाह-यदा तेनेति कर्तरि करणे वा तृतीयेति । यदा स्वकर्मकविवक्षयेति । तुनाऽरुचिः सूचिता । तद्वीजं तु सकर्मकत्वविक्षयैव सिद्धे उपसर्गसम्बन्धसम्मतस्य सकर्मकत्वस्य त्यागे मानाभाव 15 इति सकर्मकाणामपि धातूनां विवक्षावशाद कर्मकत्वस्य
355
" धातोरर्थान्तरे इत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥
"
|
इति वार्तिकवचनेन सिद्धतया तादृशविवक्षावशादकर्मकत्वस्य संभावनामात्रेण पक्षान्तरमिदमुपन्यस्तम् । तथा 20 तथा चाकर्मकत्वे कर्मणि करणे च न क्तोऽपि तु कर्तर्येव । तथा च तेनेत्यत्र हेतावेव तृतीयेति युक्तम् । कुशाम्बेन निर्वृत्ता इत्यादी यथायोगं कर्तरि हेतौ या तृतीयेत्यनुस - न्धेयम् । विनाऽपि चकारं 'देशे तन्नाम्नि' इत्येतदनुवृत्तौ सिद्धायां चकारस्य वैयर्थ्यमाशङ्कयाह-चकारचतुणीं 25 योगानामुत्तरत्रानुवृत्यर्थ दति । यद्यपि योगास्त्रय
एव - " निवासादूरभवे " [ ६.२.६९.], " तदत्रास्ति ० " [६.२.७०.], " तेन निर्वृत्तं च " [ ६.२.७१. इति । तथापि निवासादूरभवे इत्यनेनार्थद्वये प्रत्ययविद्यानादस्य भिन्नवाक्यकल्पनया योगद्वयम् । इत्थं योगानां चतुष्टयं 30 सिद्धयति, तच्चोत्तरत्र सहैवानुवर्तते । तत्फलमाह--तेनोत्तरे प्रत्यया यथायोगमित्यादि । यथायोगमित्यस्य येनार्थेन यस्याः प्रकृतेयेगो युज्येत तत्रार्थे तस्याः प्रकृतेः प्रत्ययः । (येष्वन्यतमे एवार्थ इति यावत्) भवदि, न तु सर्वाभ्य एव प्रकृतिभ्यः सर्वेभ्वेष्वर्थेषु भवन्तीति भावः ॥ ६२७१॥
नद्य मतुः ||६|२|७२॥
तस्य निवासः, तस्यादूरभवः तदत्रास्ति तेन निर्वृतं चेत्येष्वर्थेषु यथायोगं मतुः प्रत्ययो
पा० २. ऋ० ७२. ]
भवति, नयां देशे नाम्नि प्रत्ययान्तं चेन्नदीविषयं देशस्य नाम भवति, नदीनामेत्यर्थः । अणोऽपवादः । 40
उदुम्बरा अस्यां सन्ति उदुम्बरावती नदी । मशकावती । वीरणावती । पुष्करावती । क्षुमती । मती । शरावती । इरावती । भगीरथेन निर्वृत्ता भागीरथी । भैमरथी । जाह्नवी । सौवास्तवी | अमत्यन्तान्येव भागी- 45 रथ्यादीनि नदीनामानीति मतुर्न भवति ॥७२॥
श०म० न्यासानुसन्धानम् - नद्यां० । चतु
र्णामर्थानामनुवृत्तिः सिद्धान्तितैव पूर्वत्र, प्रकृतिरपि अर्थानुसारमेव षष्ठ्यन्तादिका यथायोगमेवानुसन्वेया । 'देशे नाम्नि' इति च पूर्वतोऽनुवृत्तमेव । नद्यामिति च देशे 50 इत्यनेन सामानाधिकरण्यसंबन्धेनेवान्वेतुं युज्यते । तथापि सप्तम्या विषयतार्थस्वं वर्णयति नदीविषयं देशस्य नाम भवति इति नद्यवच्छिन्नो यो देश इति प्रतीम्या नद्यामवच्छेदकताख्या विषयता भवति, नद्यवच्छिन्नश्च देशो नदीरूप एवेति वस्तुतः सामानाधिकरण्यमेव पर्यत्रस्य- 55 तीत्याह - नदी नामेत्यर्थ इति । प्रत्ययान्तं चेन्नदीनाम भवतीति पर्यवसितोऽर्थ इत्यर्थः । ननु अर्थानुसारमिह 'तदत्रास्ति' इत्यस्यैव योगः सम्भवति । तथा च तस्मिअयं मत्वर्थीयमतुने वोदुम्बरावतीत्यादीनां सिद्धौ सत्यां किमिह मतोविंधानमिति चेदश्राह--अणोऽपवाद इति । चातुरर्थिको 60 ह्म मतोरपवाद इति पूर्वमुक्तम्, स मा भूत्, किन्तु मतुरेवायं भवत्वित्यर्थमिह मतोरेव विधानमिति भावः । अयोदाहरति- उदुम्बरा अस्यां सन्तीति । उदुम्बरशब्दात् मतौ कृते " अनजिरादि ० " [ ३.२.७८ ] इति दीर्घं मतोर्मस्य वत्वे स्त्रियामुदुम्बरावतीति । एवमन्येष्वपि विज्ञेयम् । 65 कचिन्नद्यामपि मतुर्न भवतीत्यर्थस्य सूचनाय हा दृशान्यपि रूपाणि उदाहरति-भगीरथेन निवृत्ता भागीरथीस्यादिना । भीमरथेन भैमरथी, जहनुना जाह्नवी, सुवास्तुना सौवास्तवीति । आद्ययोरणि, आदिस्वरवृद्धी स्त्रीत्वाद् ङयां रूपसिद्धिः । अन्त्ययोरणि आदिस्वरवृद्धौ 70 " अस्वयंभुवोऽव्” [७.४.७०.] इत्यवादेशे यां रूपसिद्धिः । मतुरेषु कुतो नेत्याह-अमत्यन्तान्येव भागीरथ्यादीनि नदीनामानीति । अयमाशयःअत्र प्रकरणे विवक्षार्थ इति करणः सर्वत्र विज्ञेयः । तथा व व्यवहृते नान्येव प्रत्ययविधानमिति भागीरथादिशब्दा- 75.
"Aho Shrutgyanam"