Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 20
________________ damadad श्री सूत्रकृताङ्गसूत्रम् Back १५ ] नुमतयः प्राणिव्यपरोपणं प्रति न विद्यते तथा भावविशुद्धया अरक्तद्विष्टबुद्ध्या कर्मोपचयाभावाच्च निर्वाणमभिगच्छति ।।२७।। भावशुद्धया प्रवर्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाहपुत्तं पिया समारंभ, आहारट्ठमसंजए । भुंजमाणो य मेधावी, कम्मुणा नोवलिप्पति ||२८|| पुत्रम् असंयत:-गृहस्थ: पिता समारभ्य-व्यापाद्य आहारार्थं भावविशुद्धया तत्पिशितं भुञ्जानोऽपि तथा मेधाव्यपि-संयतोऽपि कर्मणा नोपलिप्यते । 'पुत्तं पि ता समारब्भ' इति पाठमाश्रित्य कस्मिञ्चिद्देशकाले शाक्यसिंहेनापि पोत्रिणं-सूकरं समारभ्य तत्पिशितं भुक्तमासीदिति श्रूयते तन्न्यायपथमवतारणार्थमपीत्थं तेषां प्रतिपादनं संभाव्यत इति ।।२८।। साम्प्रतमेतद्दूषणायाहमणसा जे पउस्संति, चित्तं तेसिं न विज्जती । अणवज्जमतहं तेसिं, ण ते संवुडचारिणो ||२९|| मनसा ये प्रद्विषन्ति तेषां वधपरिणतानां शुद्धं चित्तं न विद्यते, तदेवं यत्तैरभिहितंयथा केवलमन:प्रद्वेषेऽपि अनवद्यं कर्मोपचयमान इति, तत्तेषाम् अतथ्यम्-असत्यं यतो न ते संवृतचारिणो मनसोऽशुद्धत्वात्, तथाहि-‘एवं भावशुद्ध्या निर्वाणमभिगच्छती'ति भणता मनस एकस्य प्राधान्यमभ्यधायि, तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापार: कर्मबन्धायेत्युक्तं भवति, तर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततेव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, तथा स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादीषद्वन्धो भवत्येव, स च भवताऽप्यभ्युपगत एव 'अव्यक्तं तत् सावद्य'मित्यनेनेति । तदेवं मनसो क्लिष्टस्यैकस्यैव व्यापारे बन्धसद्भावात् यदुक्तं भवता 'प्राणी प्राणिज्ञान' मित्यादि तत् सर्वं प्लवत इति । यदप्युक्तं 'पुत्रं पिता समारभ्ये' त्यादि तदप्यनालोचिताभिधानं, यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कश्चिद् व्यापादयति, एवम्भूतचित्तपरिणतेश्च कथमसंक्लिष्टता ? चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इति । यच्च कृतकारितानुमतिरूपमादानत्रयं भवताभिहितं तज्जैनेन्द्रमतलवास्वादनमेवाकारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिति ।।२९।। अधुनैतेषां क्रियावादिनामनर्थपरम्परां दर्शयितुमाहइच्चेयाहिं दिट्ठीहिं, सातागारवणिस्सिता । सरणं ति मण्णमाणा, सेवंती पावगं जणा ||३०|| इत्येताभिश्च दृष्टिभिर्वादिनः सातागौरवनिश्रिता इदमस्मदीयं दर्शनं शरणमिति मन्यमाना विपरीतानुष्ठानतया सेवन्ते पापमेवं वतिनोऽपि सन्तो जना इव जना: प्राकृतपुरुषस

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162