Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 149
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् ७ १४४ सम्यग्दर्शनाद्यर्थी व्यवदानतपसी तप: संयमौ उपेत्य आदाय शुद्धेन चाहारेणाऽऽत्मानं यापयन् यदिवा शुद्धेन मार्गेणाऽऽत्मानं वर्तयन्नुपैति मोक्षम् । 'न उवेइ मारं ' पाठान्तरमाश्रित्य नोपैति मारं संसारम् यदिवा प्राणत्यागलक्षणं मारं बहुशो न प्राप्नोति । तथाहि - अप्रतिपतितसम्यकत्व उत्कृष्टत: सप्ताष्टौ वा भवान् म्रियते नोर्ध्वमिति ।। १७ । । तदेवं गुरुकुलनिवासितया यत् कुर्वन्ति 1 तदाह संखाय धम्मं च वियागरेंति, बुद्धा हु ते अंतकरा भवंति । ते पारगा दोह वि मोयणाए, संसोधितं पण्हमुदाहरति ||१८|| तेच बुद्धाः संख्यया सदबुद्धया धर्मं व्यागृणन्ति प्रतिपादयन्ति, एवं कर्मणाम् अन्तकरा भवन्ति ते द्वयोरपि स्वपरयोः कर्मपाशात् स्नेहादिनिगडाद्वा मोचनया संसारसमुद्रस्य पारगा भवन्ति । ते च बुद्धाः सम्यक् संशोधितं पूर्वापराविरुद्धं नयनिक्षेपैर्वा विवेचितं प्रश्नं शब्दम् उदाहरन्ति उत्तरं ददातीति ।। १८ ।। प्रश्नमुदाहरन् कश्चिदन्यथापि ब्रूयादतः तत्प्रतिषेधायाह नो छाते नो वि य लूसएज्जा, माणं ण सेवेज्ज पगासणं च । ण याविपणे परिहास कुज्जा, ण याऽसिसावाद वियागरेज्जा ||१९|| स प्रश्नस्योदाहर्ता कुतश्चिन्निमित्तात् सूत्रार्थं परगुणान् च न छादयेत्, नापि सूत्रार्थं लूषयेद्=विडम्बयेत्, आत्मनः प्रतिभासंपन्नत्वेन मानं तथा बहुश्रुतत्वेन तपस्वित्वेन वा प्रकाशनं न सेवेत । नापि प्राज्ञः परस्य परिहासं केलिप्रियं न ब्रूयात् यदिवोपहासप्रायं न कुर्यात् । " न च आर्शीवादं बहुपुत्रो बहुधनो दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात्, अपि तु भाषासमितियुक्तेन भाष्यमिति ।। १९ । । किंनिमित्तमार्शीवादो न विधेय इत्याह I भूताभिसंका दुगुछमाणो णणिव्वहे मंतपदेण गोत्तं । ण किंचि मिच्छे मणुओ पयासु, असाहुधम्माणि ण संवदेज्जा ॥२०॥ · [=नाप भूताभिशङ्कया जीवोपमर्दशङ्कया सावद्यमार्शीवादं जुगुप्समानः न ब्रूयात् । तथा गास्त्रायते इति गोत्रं=वाक्संयमस्तं मन्त्रपदेन विद्याऽपमार्जनविधिना न निर्वाहयेत्-न निःसारं कुर्यात्, यदिवा गोत्रं=जन्तूनां जीवितं तद् मन्त्रपदेन = राजादिगुप्तभाषणपदेन न निर्वाहयेत् = नयेदिति । तथा प्रजासु=श्रोतृषु मनुजः साधुः व्याख्यानं धर्मकथां वा कुर्वन् न किञ्चित् पूजासत्कारादिकम् इच्छेत् । तथा असाधुधर्मान् कुत्सितधर्मान् छगवधदानतर्पणादिकान् न संवदेत्, यदिवा नासाधुधर्मान् संवादयेत्, अथवा परै: संवादनलक्षणमाऽऽत्मश्लाघां नेच्छेदिति ।।२०।। किञ्चान्यत्–

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162