Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 156
________________ aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् ladak१५१] अंतं करेंति दुक्खाणं, इहमेगेसि आहितं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ।।१७।। यथा इहलोके एकेषां वादिनाम् आख्यातम् अमनुष्या अशेषानां दुःखानामन्तं कुर्वन्ति इति न तथार्हतां, अमनुष्याणं सामग्यभावात् । इदमन्यत् पुनरेकेषां स्वशिष्यानां गणधरादिभिः आख्यातं, तद्यथा-दुर्लभोऽयं समुच्छ्रयः मनुष्यशरीरादिलक्षणो मोक्षकनिबन्धनं युगसमिलादिन्यायात् ।।१७।। अपि चइतो विद्धंसमाणस्स, पुणो संबोहि दुल्लमा । दुल्लमा उ तहच्चा णं, जे धम्मट्ठ वियागरे ॥१८॥ इत: मनुष्यभवात् सद्धर्मतो वा विध्वंसमानस्य अकृतपुण्यस्य पुन: बोधिः धर्माऽवाप्ति: दुर्लभा । दुर्लभा तथा बोधिप्राप्तियोग्या अर्चा लेश्या यदिवाऽर्चा मनुष्यशरीरम्, जन्तूनां ये धर्म एवार्थ: धर्मार्थस्तं धर्मार्थं व्याकुर्वन्ति तीर्थंकरगणधरादयः, ये धर्मप्रतिपत्तियोग्या इत्यर्थः, तेषां तथाभूतार्चा सुदुर्लभा भवतीति ।।१८।। किञ्चान्यत्जे धम्मं सुद्धमक्खंति, पडिपुण्णमणेलिसं । अणेलिसस्स जं ठाणं, तस्स जम्मकहा कुतो ।।१९।। ये वीतरागाः सर्वज्ञास्ते प्रतिपूर्णमनीदृशं शुद्ध धर्ममाख्यान्ति स्वत: समाचरन्ति च । अनीदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं तदवाप्तस्य तस्य जन्मकथा कुतः ? कर्मबीजाभावात् नैवेत्यर्थः ।।१९।। किञ्चान्यत्कुतो कताइ मेधावी, उप्पज्जंति तहागता । तहागता य अपडिण्णा, चक्खू लोगस्सऽणुत्तरा ||२०|| __कर्मबीजाभावात् कुतः कदाचिदपि मेधाविनः तथा अपुनरावृत्त्या गताः पुनरस्मिन् संसारे उत्पद्यन्ते ? न कथञ्चित् कदाचिदित्यर्थः । तथा तथागता: तीर्थकरगणधरादयः अप्रतिज्ञाः निराशंसा सत्त्वहितकरणोद्यता अनुत्तरज्ञानत्वात् अनुत्तरं प्राकृतत्वाल्लिङ्गव्यत्ययः लोकस्य चक्षुः नेत्रभूता वर्तन्त इत्यर्थः ।।२०।। किञ्चान्यत्अणुत्तरे य ठाणे से, कासवेण पवेदिते । जं किच्चा णिन्बुडा एगे, निर्ल्ड पावंति पंडिया ।।२१।। . अनुत्तरं च तत् संयमाख्यं स्थानं काश्यपेन श्रीवर्धमानस्वामिना प्रवेदितं यत् कृत्वा

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162