Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 159
________________ adhaachaad श्री सूत्रकृताङ्गसूत्रम् addakaddap५४] प्रद्वेषहेतवः ततस्तत: प्राणातिपातादेः विरत: आदानात् पूर्वम् एवं प्रतिविरत: स्यात् । यश्चैवंभूतो दान्तः द्रव्यः=संयमी व्युत्सृष्टकायः स श्रमण इति वाच्य इति ।।२।। साम्प्रतं भिक्षुशब्दस्य प्रवृत्तिनिमित्तमाहएत्थ वि भिक्खू अणुन्नए नावणए णामए दंते दविए वोसटुकाए संविधुणीय विरूवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे उवट्टिते ठितप्या संखाए परदत्तभोई भिक्खु त्ति वच्चे । ___अत्रापि पूर्वोक्तमाहनशब्दप्रवृत्तिहेतवो भिक्षुशब्दस्य प्रवृत्तिनिमित्तेऽवगन्तव्याः, अमी चान्ये, तद्यथा-अनुन्नत: मदरहितः, नावनत: अदीनमनाः, नामक: नम्रो विनयेन वाऽष्ट प्रकारं कर्म नामयति=अपनयतीत्यर्थः । तथा दान्तः द्रव्यः पूर्ववत् व्युत्सृष्टकायः संविधूय अपनीय विरूपरूपान् परीषहानुपसर्गाश्च, तथा अध्यात्मयोगेन शुद्धम् आदानं चारित्रं यस्य स अध्यात्मयोगशुद्धाऽऽदानं, तथा सम्यगुत्थानेन उत्थितः, तथा स्थितो मोक्षाध्वनि आत्मा यस्य य स्थितात्मा, तथा संख्याय विज्ञाय संसारासारतां धर्मसामग्रीदुर्लभतां च सत्संयमकरणोद्यत: परदत्तभोजी, स एवंगुणकलितो भिक्षुरिति वाच्य इति ।।३।। साम्प्रतं निर्ग्रन्थशब्दस्य प्रवृत्तिनिमित्तमाह ___ एत्थवि णिग्गंथे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसामाइए आयवायपत्ते विऊ दुहओवि सोयपलिच्छिन्ने णो पूयासक्कारलाभट्ठी धम्मट्ठी धम्मविऊ णियागपडिवन्ने समियं चरे दंते दविए वोसट्ठकाए निग्गंथेत्ति वच्चे ।।४।। से एवमेव जाणह जमहं भयंतारो ।। तिबेमि ।। अत्रापि अनन्तरोक्ते गुणसमूहे वर्तमानो निर्ग्रन्थ इति वाच्यः, अमी चान्ये व्यपदिश्यन्ते, तद्यथा-एकः रागद्वेषरहितः, एकविद् जैनशासनं मोक्ष: संयम एव वा तथ्यमिति वेत्ति, बुद्धः, संछिन्नस्त्रोता: निरुद्धाश्रवः, सुसंयतः सुसमितः, सुसामायिकः समशत्रुमित्रभाव:, उपयोगादिलक्षणस्य आत्मनो वादस्तं प्राप्त: आत्मवादप्राप्तः विद्वान्, द्रव्यभावभेदात् द्विधाऽपि परिच्छिन्नस्त्रोताः, न पूजासत्कारलाभार्थी, धर्मार्थी, धर्मविद्, नियागो मोक्षः संयमो वा तं प्रतिपन्न: नियागप्रतिपन्नः एवंभूतः समतां चरेत् दान्तःद्रव्यः, व्युत्सुष्टकायः निग्रन्थ इति वाच्य इति ।।४।। उपसंहरन्नाह- प्रतिपन्न: नियागप्रतिपन्न: एयंभूतः सुधर्मस्वामी जम्बूस्वामिप्रभृतीनुद्दिश्येदमाह-से-तद् यन्मया कथितम् एवमेव जानीत यूयं यस्मादहं सर्वज्ञाज्ञया ब्रवीमि न च सर्वज्ञा भगवन्तः भयात् त्रातारो वाऽन्यथा ब्रुवते । इति परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । ।। गाथा षोडशमध्ययनं समाप्तम् ।। ।। प्रथमः श्रुतस्कन्धः समाप्तः ।।

Loading...

Page Navigation
1 ... 157 158 159 160 161 162