Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 157
________________ Medaladkareducedeiodie श्री सूत्रकृताङ्गसूत्रम् deddaddedia१५२] संयममनुपाल्य एके निर्वृत्ता: निर्वाणं प्राप्ताः सन्तः पण्डिताः संसारस्य निष्ठां पर्यवसानं प्राप्नुवन्तीति ।।२१।। अपि चपंडिए वीरियं लद्धं, निग्घायाय पवत्तगं । धुणे पुबकडं कम्म, नवं चावि न कुब्बति ।।२२।। पण्डितः कर्मणां निर्घातनाय प्रवर्तकं वीर्यं लब्ध्वा पूर्वकृतं कर्म धूनीयात् अपनयेत् नवं च असौ न करोति आश्रवनिरोधादिति ।।२२।। किञ्चन कुब्बती महावीरे, अणुपुब्बकडं रयं । रयसा संमुहीभूते, कम्मं हेच्चाण जं मतं ॥२३॥ महावीरः कर्मविदारणसहिष्णुः सन् यदपरजन्तुभि: आनुपूर्येण मिथ्यात्वाऽविरत्यादिभिः कृतं आनुपूर्व्यकृतं रजः कर्म बध्यते तदसौ न करोति । अपि च-रजसा-कर्मणा सत्संयमानुष्ठानेन यन्मतम् अष्टप्रकारं कर्म तत्सर्वं हित्वा त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखीभूत : असाविति ।।२३।। अन्यच्चजं मतं सव्वसाहूणं, तं मयं सल्लकत्तणं । साहइत्ताण तं तिण्णा, देवा वा अभविंसु ते ॥२४॥ सर्वसाधूनां यन्मतं तत् संयमस्थानं शल्यकर्तनं कर्मकर्तनं वा मतम् । तत् सदनुष्ठानं साधयित्वा ते बह्वः साधवः संसारसमुद्रं तीर्णाः, अपरे च सर्वकर्मक्षयाभावात् देवाः अभूवन् भवन्ति भविष्यन्ति चेति ।।२४।। सर्वोपसंहारार्थमाहअभविंसु पुरा वीरा, आगमिस्सा वि सुब्बता । दुण्णिबोहस्स मगस्स, अंतं पादुकरा तिण्णा ||२५|| त्ति बेमि | __ अभूवन पुरा वीराः वर्तमानकाले च भवन्ति तथा आगमिष्यति काले अपि भविष्यन्ति सुव्रताः ये दुर्निबोधस्य दुष्प्रापस्य मार्गस्य ज्ञानादे: अन्तं परमकाष्ठामवाप्य तस्यैव मार्गस्य प्रादुष्करा: प्रकाशकरणशीला: स्वयं चानुष्ठायिन: संसार, तीर्णा : तरन्ति तरिष्यन्तिसमुद्रं चेति ब्रवीमि पूर्ववत् ।।२५।। ।। पञ्चदशमध्ययनं यदतीतं नाम समाप्तम् ।।

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162