Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 153
________________ श्री सूत्रकृताङ्गसूत्रम् १४८ दिति ।।३।। यथा भूतेषु मैत्री संपूर्णा भवति तथा दर्शयति- भूतेहिं न विरुज्झेज्जा, एस धम्मे सीमओ । सीमं जगं परिण्णाय, अस्सि जीवितभावणा ||४|| भूतैः स्थावरत्रसैः न विरुध्येत जीवहिंसां न कुर्यादित्यर्थः, एष धर्मः जीवाऽविरोधकारित्वात् वुसीमओ तीर्थकृतः सत्संयमवतो वा । 'वुसिमं' तीर्थकृत् सत्संयमवान् वा जगत् चराचरं परिज्ञाय अस्मिन् जगति मौनीन्द्रे वा धर्मे भावना: पञ्चविंशतिरूपा द्वादशप्रकाराश्च या अभिमतास्ता जीवितभावना जीवसमाधानकारिणी : सत्संयमाङ्गतया मोक्षकारिणीर्भावयेदिति ।।४।। सद्भावनाभावितस्य यद्भवति तद्दर्शयितुमाह भावणाजोगसुद्धप्पा, जले णावा व आहिया । नावा व तीरसंपत्ता, सव्वदुक्खा तिउट्टति ॥५॥ भावनाभियोगिः सम्य:गप्रणिधानलक्षणो भावनायोगस्तेन शुद्ध आत्मा = अन्तरात्मा यस्य स भावनायोगशुद्धात्मा जले अनिमज्जनत्वेन नौरिव आख्यातः । नौरिव यथाऽसौ निर्यामकाऽधिष्ठिताऽनुकूलवातेरिता तीरसंपन्ना तथाऽसावपि आयतचारित्रवान् तीर्थकृत् सत्संयमी वा समस्तद्वन्द्वापगमात् सर्वदुःखेभ्यः जन्मजरामरणरोगशोकवियोगलक्षणेभ्यः त्रुट्यति अपगच्छति मोक्षाख्यं च तीरमवाप्नोतीति ।। ५ ।। अपि च तिउवृति तु मेधावी जाणं लोगंसि पावगं । तिउट्टंति पावकम्माणि, नवं कम्ममकुव्वओ ||६॥ " I मेधावी अशुभयोगेभ्य: सर्वबन्धनेभ्यो वा त्रुट्यति मुच्यते लोके पापकं कर्म ज्ञप्रत्याख्यानपरिज्ञया जानन्=परिहरन् । नवं च कर्म अकुर्वतः पूर्वसंचितानि पापकर्माणि त्रुट्यन्ति अशेषकर्मक्षयो मोक्षो भवतीति ।। ६ ।। केषाञ्चित् स्वतीर्थनिकारदर्शनतः पुनरपि संसाराभिगमनं भवतीतीदमाशङ्क्याह अकुव्वतो णवं नत्थि, कम्मं नाम विजाणइ । विन्नाय से महावीरे, जेण जाति ण मिज्जती ||७|| कामपि क्रियाम् अकुर्वतो नवं कर्म नास्ति बन्धाऽभावात् कर्माभावे च कुत: संसाराभिगमनम् ? स कर्म नामतो भेदतश्च विजानाति, संभावनायां वा नामशब्दः स महावीर : कर्मस्वरूपं विज्ञाय तत् करोति येन संसारे पुनर्न जायते न म्रियते, नरकादिकया जात्या न मीयते न व्यपदिश्यते वा ।। ७ ।। किं पुनः कारणमसौ जात्यादिना न मीयते इत्याशङ्कयाह

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162