Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 151
________________ aaddakadad श्री सूत्रकृताङ्गसूत्रम् aaaaaaa१४६ यदिवा व्याकरणतर्कप्रवेशेन प्रसक्त्यनुप्रसक्त्या न दीर्घयेदिति ।।२३।। अपि चसमालवेज्जा पडिपुण्णभासी, निसामिया समिया अट्ठदंसी । आणाए सुद्धं वयणं मिउंजे, मिसंधए पावविवेग मिक्खू ॥२४॥ ___ यत्पुनरतिगहनार्थत्वाद् अल्पाक्षरैर्नावबुध्यते तत् सम्यग् समन्तात् पर्यायशब्दोच्चारणतो भावार्थकथनाच्चालपेत् भाषेत समालपेत् । तथा क्वचित्श्रोतृविशेषमाश्रित्य हेतुयुक्त्यादिभिः प्रतिपूर्णभाषी स्यात् । तथाऽऽचार्यादेः सकाशादर्थं श्रुत्वा निशम्य अवगम्य च सम्यगर्थं प्रतिपाद्यं द्रष्टुं शीलमस्य स सम्यगदर्थदर्शी सन् आज्ञया आगमानुसारेण शुद्धं वचनम् अभियुञ्जीत अभिवदेत् । एवमभिवदन भिक्षः पापविवेकं केवलनिर्जरां काङ्क्षमाणः निर्दोषवचनम् अभिसन्धयेदिति ।।२४।। पुनरपि भाषाविधिमाहअहाबुइयाइं सुसिक्खएज्जा, जएज्ज या णातिवेलं वदेज्जा । से दिट्टिमं दिट्टिण लूसएज्जा, से जाणति भासिउं तं समाहिं ॥२५॥ 'अहाबुइयाई' यथोक्तानि तीर्थंकरादिभि: तानि सदा सुशिक्षेत आसेवनतोऽपि शिक्षेत, ततश्च देशनायां यतेत् । तथा-देशनां कुर्वन् कर्तव्यकालस्याध्ययनकालस्य वा वेलामतिक्रम्य नातिवेलं वदेत् । तथा यथाकालवादी यथाकालचारी च स भिक्षुः दृष्टिमान् स्वपरदर्शनज्ञो वदन् दृष्टिं सम्यग्दर्शनं न लूषयेत न दूषयेत्, अपितु यथा श्रोतुः सम्यकत्वं स्थिरीभवति तथा वदेत्, न पुनः शङ्कोत्पादनेन दूषयेत् । एवम् असौ तं समाधि सम्यग्दर्शनादिकं सम्यक्तत्त्वव्यवस्थाऽऽख्यं वा भाषितुं जानातीति ।।२५।। किञ्चान्यत्अलूसए णो पच्छण्णभासी, णो सुत्तमत्थं च करेज्ज ताई। सत्थारभत्ती अणुवीति वायं, सुयं च सम्म पडिवातएज्जा ||२६|| सर्वज्ञागमं कथयन् अपसिद्धान्तेन न लूषयतीति अलूषकः स्यात्, तथा सिद्धान्तार्थं प्रच्छन्नभाषणेन न गोपयतीति न प्रछन्नभाषी भवेत, प्रच्छन्नं वाऽर्थमपरिणताय न भाषेत । तथा न च सूत्रम् अन्यत् स्वमतिकल्पनात: त्रायी कुर्यात्, यदिवा सूत्रं तदर्थं वाऽन्यथा न विदधीत शास्तृभक्त्या उत्सूत्रभयाद् अनुविचिन्त्य वादं वदेत् । तथा यत् श्रुतम् आचार्यादेः सकाशात् तत्तथैव सम्यक् प्रतिपादयेदिति ।।२६।। उपसंहारार्थमाहसे सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेज्जवक्के कुसले वियत्ते, से अरिहति भासिउं तं समाहिं ।।२७|| त्ति बेमि ।

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162