Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 150
________________ aaaaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् addadaddddddd१४५] हासं पि णो संधये पावधम्मे, ओए तहियं फरुसं वियाणे । नो तुच्छए नो व विकत्थइज्जा, अणाइले या अकसाइ भिक्खू ।।२१।। यथा स्वपरयोः हास्यम् उत्पद्यते तथा शब्दादिकं शरीरावयवं अन्यान् वा पापधर्मान् सावधव्यापारान् न सन्धयेद् न विदध्यात् तद्यथा-इदं छिन्द्धि भिन्छि । तथा कुप्रावचनिकानपि हास्यप्रायं नोपहसेत- तद्यथा-शोभनं भवदीयं व्रतं, तथाहि-'मृद्वी शय्या प्रातरुत्थाय पेया' इत्यादिकं परदोषोद्भावनं पापबन्धकमिति हास्येनापि न वक्तव्यम् । तथा रागद्वेषरहितत्वात् ओजः साधुः तथ्यं सत्यमपि परुषं कर्कशं ज्ञपरिज्ञया विजानीयात् प्रत्याख्यानपरिज्ञया च परिहरेत् । यदिवा परमार्थत: तथ्यं दुरनुष्ठेयत्वाच्च परुषं संयमं विजानीयात्=तदनुष्ठानत: सम्यगवगच्छेत् । तथा स्वत: किञ्चिदर्थविशेषं परिज्ञाय पूजासत्कारादिकं वाऽवाप्य न तुच्छयेद् नोन्मादं गच्छेत, न च विकत्थयेत्=नात्मानं श्लाघयेत, परं वा सम्यगनवबुध्यमानं नात्यन्तं कदर्थयेत् । तथा व्याख्यानावसरे धर्मकथावसरे वा अनाविल: लाभादिनिरपेक्ष: अनाकुलो वा भवेत् । तथा भिक्षुः सदा अकषायी भवेदिति ।।२१।। साम्प्रतं व्याख्यानविधिमाहसंकेज्ज याऽसंकितभाव भिक्खू, विभज्जवादं च वियागरेज्जा । भासादुगं धम्मसमुट्टितेहिं, वियागरेज्जा समया सुपण्णे ।।२२।। भिक्षुः व्याख्यानं कुर्वन्नर्वाग्दर्शित्वाद् विषमार्थनिर्णय प्रति अशङ्कितभावोऽपि शङ्केत, यदिवा अशङ्कितभावम् अपि अर्थं न तथा कथयेत् यथा पर: शङ्केत, तथा विभज्यवादं पृथगथनिर्णयवादं स्याद्वादं वा व्यागृणीयात्, अथवा सम्यगर्थान् विभज्य=पृथक् कृत्वा तद्वादं वदेत्, तद्यथा-द्रव्यार्थतया नित्यवादं पर्यायार्थतस्त्वनित्यवादं वदेत्, तथा स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः सन्ति, परद्रव्यादिभिस्तु न सन्ति इत्यादिकं विभज्यवादं वदेत् । विभज्यवादमपि भाषाद्विकेन ब्रूयादित्याह-भाषयो: आद्यचरमयोः सत्यासत्यामृषयोकिं भाषाद्विकं धर्मसमुत्थितैः उद्युक्तविहारिभिः सह विहरन् सुप्रज्ञः चक्रिरङ्कयोः समतया व्यागृणीयात् वदेदिति ।।२२।। किञ्चान्यत्अणुगच्छमाणे वितहं भिजाणे, तहा तहा साहु अकक्कसेणं । ण कत्थती भास विहिंसएज्जा, निरुद्धगं वा वि न दीहएज्जा ||२३|| ___ तस्यैवं भाषाद्वयेन कथयत: कश्चित् मेधावितया अनुगच्छन् सम्यगवबुध्यते, अपरस्तु मन्दमेधावितया वितथम् अन्यथैव विजानीयात्, तं च सम्यगनवबुध्यमानं साधुन निर्भर्त्सयेत्, किन्तु यथा यथाऽसौ बुध्यते तथा तथा अकर्कशेन वचनेन बोधयेत् नानादरेण कथयन् मनः पीडामुत्यादयेत् तथा क्वचित् प्रश्नयतो दोषदुष्टामपि भाषाम् आश्रित्य प्रश्नयितारं न विहिंस्यात् न तिरस्कुर्यात् । तथा निरुद्धम् अर्थस्तोकं स्तोककालीनं वा व्याख्यानं दीर्घवाक्यैः महता शब्देन

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162