Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
इह प्रवचने ग्रन्थं विहाय सम्यगुत्थानेन उत्थाय ग्रहणासेवनशिक्षां शिक्षमाण: सुब्रह्मचर्यं संयमं वा आवसेत् सम्यक्कुर्यात् । तथा आचार्यवचनस्य अवपातः निर्देशस्तत्कारी अवपातकारी सदाऽऽज्ञाविधायी विनयं सुशिक्षेत्= परिपालयेत् तथा यः छेक : निपुण: स संयमानुष्ठाने आचार्यवचने वा विविधं प्रमादं विप्रमादं न कुर्यादिति ।। १ ।। स्वच्छन्दतया गच्छान्निर्गतस्यापायान् दृष्टान्तद्वारेणाह
जहा दियापोतमपत्तजातं, सावासगा पविडं मण्णमाणं ।
तमचाइयं तरुणमपत्तजातं ढंकादि अव्वत्तगमं हरेज्जा ||२||
"
यथा अपत्रजातम् अपक्षोद्भवं द्विजपोतं पक्षिशिशुं स्वाऽऽवासकात् स्वनीडात् प्लवितुम् उत्पतितुं मन्यमानं ढंकादय: प्रतीताः तं तरुणमपत्रजातम् अव्यक्तगमं गमनाभावे नंष्टुम् असमर्थं हरेयुंः नीत्वा व्यापादयेयुरिति ।। २ ।। अथ दान्तिकमाह
एवं तु सेहं पि अधम्मं, निस्सारियं वुसिमं मण्णमाणा । दियस्स छावं व अपत्तजातं हरिंसु णं पावधम्मा अणेगे ||३||
"
१४०
एवं तु अपुष्टधर्माणं शैक्षमपि पापधर्माण: तीर्थिकाः स्वजना राजादयो वा अनेके गच्छात् निस्सारितम् अस्माकं वश्यमिति मन्यमाना: यदिवा वुसिमं चारित्रं निस्सारमिति मन्यमानास्तं शैक्षं द्विजस्य शावमिव पक्षिशिशुमिव अपत्रजातं हृतवन्त: त्रिकालगोचरत्वात् सूत्रस्येति ।।३ ।। तदेवमेकाकिनो बहवो दोषा अतः सदा गुरुपादमूले स्थातव्यमित्येतद्दर्शयितुमाहओसाणमिच्छे म समाहिं, अणोसिते णंतकरे ति णच्चा | ओभासमाणो दवियस्स वित्तं, ण णिक्कसे बहिता आसुपण्णे ||४||
अवसानं गुरोरन्तिके व्यवस्थानं तत् यावज्जीवं समाधिं सन्मार्गानुष्ठानरूपं इच्छेत् मनुजः साधुरित्यर्थः । गुरोरन्तिके अनुषित : = अव्यवस्थितः समाधे: कर्मणो यथाप्रतिज्ञातस्य वा नान्तकरो भवतीत्येवं ज्ञात्वा सदागुरुकुलवासे वसेत् । किं कुर्वन्नित्याह- द्रव्यस्य मुक्तिगमनयोग्यस्य साधोः सर्वज्ञस्य वा वृत्तम् अनुष्ठानम् अवभासयन् उदभासयन् अनुष्ठानतो धर्मकथिको वा कथनतोऽवभासयन् गुरुकुळवासं सदा वसेत न ततो बहिः निष्कसेत् निर्गच्छेत् आशुप्रज्ञः क्षिप्रप्रज्ञः, यतो गुरुकुलवासो बहूनां गुणानामाधार इति ।।४।। तदेवं गुरुकुलवासमावसन् स्थानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमुद्धावयन्नाह
1
जे ठाणओ या सयणासणे या परक्कमे यावि सुसाधुजुते । समितीसु गुत्तीसु य आयपण्णे, वियागरेंते य पुढो वदेज्जा ॥५॥
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162