Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 143
________________ adddddddddede श्री सूत्रकृताङ्गसूत्रम् ddddddddd१३८] वा अननुगृद्धः आहारादावमूर्च्छित: सम्यग् शिक्षां गृह्णीयादिति ।।१७।। किञ्चअरतिं रतिं च अभिभूय भिक्खू, बहूजणे वा तह एगचारी । एगंतमोणेण वियागरेज्जा, एगस्स जंतो गतिरागती य ।।१८।। संयमे अरतिम् असंयमे च रतिम् अभिभूय अपनीय भिक्षुः तथा बहवः साधवो गच्छवासितया सहाया यस्य स बहुजन : जिनकल्पिकादिर्वा एकचारी केनचित् पृष्टोऽसौ एकान्तमौनेन संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे अन्यदा वा एकस्यैव जन्तोः गतिरागतिश्च भवति तत्र धर्मं विहायाऽपरः कोऽपि सहायो न भवतीति ब्रूयादिति ।।१८।। किञ्चान्यत्सयं समेच्चा अदुवा वि सोच्चा, भासेज्ज धम्मं हितदं पयाणं । जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ।।१९।। स्वयं समेत्य=ज्ञात्वा संसारं तत्कारणं मिथ्यात्वादि तथा मोक्षं तत्कारणं च सम्यग्दर्शनादि समेत्य अथवा आचार्यादेः सकाशात् श्रुत्वा अन्येभ्य प्रजाभ्यः जन्तुभ्यो हितदं धर्म भाषेत । तथा ये गर्हिताः सनिदानप्रयोगा: धर्मकथाप्रबन्धा वा यदिवा सनिदाना वाक्प्रयोगा परदोषोद्घट्टनलक्षणास्तान् सुधीरधर्माः महर्षयः न सेवन्ते=न ब्रूवत इति ।।१९।। किञ्चा न्यत् केसिंचि तक्काइ अबुज्झ भावं, खुद्द पि गच्छेज्ज असद्दहाणे । आयुस्स कालातियारं वघातं, लद्धाणुमाणे य परेसु अढे ||२०|| केषाञ्चित् तीथिकानां तर्कया वितर्केण स्वमतिपर्यालोचनेन भावम् अभिप्रायम् अबुध्वा कश्चित् साधुः श्रावको वा किञ्चिद्धर्मदेशनाद्वारेण परविरोधकृद् वचो बूयाद्, स च तीर्थिकस्तद्वचः अश्रद्धान: पालकपुरोहितवत् क्षुद्रत्वमपि गच्छेत् विरूपमपि कुर्यात्, तथाहि स कुपितो वक्तुर्यदायुस्तस्य आयुषो व्याघातरूपं परिक्षेपस्वभावं कालातिचारं दीर्घस्थितिकमायुः संवर्तयेत्, यत एवं ततः कोऽयं ? कञ्च नत ? इत्यादि लब्धमनुमानं येन पराभिप्रायपरिज्ञाने स लब्धानुमानः परेषु परतीथिकादिषु प्रतिपाद्येषु यथायोगं यथार्हप्रतिपत्त्या अर्थान् सद्धर्मप्ररूपणादिकान् जीवादीन् वा स्वपरोपकाराय ब्रूयादिति ।।२०।। अपि चकम्मं च छंदं च विविंच धीरे, विणएज्ज उ सवतो आयभावं । रूवेहिं लुप्पंति भयावहेहिं, विज्जं गहाय तसथावरेहिं ।।२१।। स धर्मकथिक: धीरः कर्म=अनुष्ठानं गुरुलघुकर्मतां वा छन्दनम् अभिप्रायं च विवे

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162