Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 142
________________ aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaa१३७ वादी तथा वादावसरे धर्मकथावसरे वा प्रतिभानवान् उत्पन्नप्रतिभ: विशारदश्च चशब्दात् श्रोत्रभिप्रायज्ञश्च, तथा आगाढप्रज्ञः तत्त्वनिष्ठत्वात्, सुभावितात्मा धर्मवासनया सुष्ठु भावितत्वात्, तदेवमेभिर्गुणैः सुसाधुर्भवति । यश्चैभिरेव निर्जराहेतुभूतैर्मदं कुर्वन् अन्यं जनं प्रज्ञया परिभवेत् तदाऽन्येषां का वार्ता ? ।।१३।। एतद्दोषमाहएवं ण से होति समाहिपत्ते, जे पण्णवं भिक्षु विउक्कसेज्जा । अहवा वि जे लाभमयावलित्ते, अण्णं जणं खिंसति बालपण्णे ||१४|| एवं स साधुः समाधि प्राप्तो न भवति यः प्रज्ञावान् भिक्षुः व्युत्कर्षेत् गर्वं कुर्यात् अथवा योऽपि लाभ-मदावलिप्तः सन् अन्यं जनं खिंसति निन्दति स बालप्रज्ञः मूर्खप्राय इति ।।१४।। अन्यदपि मदस्थानं न विधेयमित्याहपण्णामयं चेव तवोमयं च, णिण्णामए गोयमयं च भिक्खू । आजीवगं चेव चउत्थमाहु, से पंडिते उत्तमपोग्गले से ।।१५।। भिक्षुः प्रज्ञामदं तपोमदं गोत्रमदं च निर्नामयेत्-निश्चयेन अपनयेत् । आजीवन्ति अनेनत्याजीव: अर्थनिचयस्तं गच्छति आश्रवतीत्यसौ आजीवगः अर्थमदः तम् अर्थमदं च चतुर्थं मदस्थानम् आहुः चशद्धाच्छेषमदान् च नामयेत् तन्नामनाच्च असौ पण्डित: भवति तथासावेव समस्तमदापनोदक: उत्तमपुद्गलः उत्तमात्मा अथवा उत्तमोत्तमो भवति पुद्गलशब्द आत्मवाची प्रधानवाची चेति ।।१५।। उपसंहरन्नाहएताइं मदाइं विगिंच धीरे, ण ताणि सेवंति सुधीरधम्मा। ते सव्वगोत्तावगता महेसी, उच्चं अगोत्तं च गतिं वयंति ।।१६।। एतानि मदानां स्थानानि वित्यजेत्, ये धीराः सुधीर: सुप्रतिष्ठितो धर्मो येषां ते सुधीरधर्माणः तानि मदस्थानानि न सेवन्ते । ते महर्मयः सर्वगोत्रापगता : अगोत्रजाम् उच्चां गतिं मोक्षाख्यां चशब्दात् कल्पातीतेषु पञ्च महाविमानेषु व्रजन्तीति ।।१६।। किञ्चभिक्खू मुयच्चा तह दिट्ठधम्मे, गामं च (व) णगरंच (व) अणुप्पविस्सा । से एसणं जाणमणेसणं च, अण्णस्स पाणस्स अणाणुगिद्धे ||१७|| ___स भिक्षुः स्नानादिसंस्काराभावात् मृतेव अर्चा तनुः शरीरं यस्य स मृतार्च: यदिवा मोदनं मुत् तद्भूता शोभनाऽर्चा-लेश्या यस्य मुदर्च: प्रशस्तलेश्य:, दृष्टः अवगतो यथावस्थितो धर्मो येन स दृष्टधर्मा ग्रामं नगरं चानुप्रविश्य तत्र एषणाम् अनेषणां च जानन् दोषांश्च परिहरन् अथवा यो यस्याभिग्रहः सा तस्यैषणा अपरा त्वनेषणेत्येवम् एषणाऽनेषणाभिज्ञ: अन्नस्य पानस्य

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162