Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
addaddedicateek श्री सूत्रकृताङ्गसूत्रम् addeddadadak[१३६] माद्यति नाऽसौ अशेषमदनिकन्दनं सर्वज्ञमतं जानातीति ।।९।। सर्वेषां मदस्थानानामुत्पत्तेरारभ्य जातिमदो बाह्यनिमित्तनिरपेक्षो यथा भवत्यतस्तमधिकृत्याह-- - - जे माहणे जातिए खत्तिए वा, तह उग्गपुत्ते तह लेच्छती वा । जे पवइते परदत्तभोई, गोत्ते ण जे थब्मति माणबद्धे ||१०||
यो हि जात्या ब्राह्मणः क्षत्रियो वा जायते, तद्भेदमेव दर्शयति-उग्रपुत्रः तथा लिच्छवी वा सन् संसाराऽपसदतामवगम्य यः प्रव्रजित: अत एव परदत्तभोजी सम्यक् संयमानुष्ठानविधायी अभिमानबद्ध मानास्पदे गोत्रे जातोऽपि यः न स्तभ्नाति न गर्वमुपयाति । भिक्षार्थं परगृहाण्यटन् कथं हास्यास्पदं गर्वं कुर्यात्, नैव कुर्यादित्यर्थः ।।१०।। न चाऽसौ मानः क्रियमाणो गुणायेति दर्शयितुमाह
ण तस्स जाती व कुलं व ताणं, णण्णत्थ विज्जा-चरणं सुचिण्णं । णिक्खम्म जे सेवतिऽगारिकम्म, ण से पारए होति विमोयणाए ||११||
___ न तस्य प्रव्रजितस्य जाति वा कुलं वा अन्यतरदपि मदस्थानं संसारे पर्यटतस्त्राणं भवति । विद्या च ज्ञानं च चरणं च = क्रिया च विद्याचरणं तच्च सुचीर्णं तस्माद् अन्यत्र मदस्थानेषु संसारोत्तरणाऽऽशा न विद्यते । निष्क्रम्य प्रव्रज्यां गृहीत्वाऽपि यदि पुन: सेवते अगारिकर्म जात्यादिकं मदस्थानं तदा नाऽसौ पारगो भवति विमोचनाय । स्वतोऽवलेपात् संसारसमुद्रे निमज्जन् परेषां कथं तारको भविष्यति ? कथमपि नैवेत्यर्थः ।।११।। पुनरप्यभिमानदोषाविर्भावनायाहणिक्किचणे भिक्खू सुलूहजीवी, जे गारवं होति सिलोयगामी । आजीवमेयं तु अबुज्झमाणे, पुणो पुणो विपरियासुवेति ।।१२।।
___ धनधान्यादित्यागात् निष्किञ्चनोऽपि भिक्षुः सुष्ठु रूक्षम् अन्तप्रान्तं वल्लचणकदि तेन जीवितुं शीलमस्य स सुरूक्षजीवी, एवम्भूतोऽपि यो गौरवं समाश्रित्य श्लोककामी आत्मश्लाघाभिलाषी भवति स परमार्थम् अबुध्यमानः एतदेवाकिञ्चनत्वं सुरूक्षजीवित्वं वा आजीविकांजीवनोपायं कुर्वन् पुन: पुन: संसारे विपर्यासमुपयाति संसारसमुद्रोत्तरणायाऽभ्युद्यतोऽपि तत्रैव निमज्जतीति ।।१२।। समाधिमसेवमानानामाचार्यपरिभाषिणां वाऽनन्तरोक्तदोषास्तस्मादमीभि: शिष्यगुणैर्भाव्यमित्याहजे भासवं भिक्खु सुसाधुवादी, पडिहाणवं होति विसारए य । आगाढपण्णे सुविमावितप्पा, अण्णं जणं पण्णसा परिमवेज्जा ||१३||
यो भाषागुणदोषज्ञतया भाषावान् भिक्षुः तथा शोभनं वदितुं शीलमस्येति सुसाधु
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162