Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 146
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् १४१ यह स्थानतः स्थानमाश्रित्य शयनासने चकारात् गमनागमने तपश्चरणादि च पराक्रमतश्च सुसाधोः ये समाचारास्तैः समायुक्तः सुसाधुयुक्तः स सुसार्धुभवति । अपि च गुरुकुलवासे निवसन् समितिषु गुप्तिषु च आगता प्रज्ञा यस्य स आगतप्रज्ञः स्वतो भवति । परस्यापि च व्याकुर्वन् कथयन् पृथक् पृथग् गुरोः प्रसादात् परिज्ञातस्वरूपः समितिगुप्तीनां यथावस्थितपालनं तत्फलं च वदेत् प्रतिपादयेदिति । । ५ । । समितिसमितेन यद्विधेयं तदाहसद्दाणि सोच्चा अदु भेरवाणि, अणासवे तेसु परिव्वएज्जा । निद्दं च भिक्खू न पमाय कुज्जा, कहंकहं पी वितिगिच्छति ||६| वेणुवीणादिकान् मधुरान् अथवा भैरवान् = भयावहान् कर्णकटुकान् शब्दान् श्रुत्वा तेषु अनाश्रवः रागद्वेषरहितो भूत्वा परिव्रजेत् । तथा निद्राप्रमादं चशब्दात् विकथाकषायादिकं च न कुर्यात् । तदेवं गुरुकुलवासात् भिक्षुः कथंकथमपि विचिकित्सां=देशसर्वगतां चित्तविप्लुतिं तीर्णो भवति, यदिवा पञ्चमहाव्रतभारं कथंकथमपि पारं नेष्यामीत्येवंभूतां विचिकित्सां गुरुप्रसादात् तीर्णो भवति, अन्येषामिपि तदपनयनसमर्थः स्यादिति ।। ६ ।। किञ्चान्यत्डहरेण वुड्ढेणऽणुसासिते ऊ, रातिणिएणावि समव्वएणं । सम्मं तगं थिरतो णाभिगच्छे, णिज्जंतए वा वि अपारए से ||७| स गुर्वन्तिके निवसन् क्वचित् प्रमादस्खलिते डहरेण क्षुल्लकेन वृद्धेन रत्नाधिकेन समवयसा व अनुशासित: चोदितः सम्यक् स्थिरतः अपुनःकरणतया तकम् अनुशासनं न अभिगच्छेत्=न प्रतिपद्येत । एवं गुरुणा मोक्षं प्रति नीयमानोऽपि अनुशास्यमानोऽपि असौ तदकरणत: संसारसमुद्रस्य अपारग एव भवतीति ।।७।। साम्प्रतं स्वपक्षचोदनानन्तरं स्वपरचोदनामधिकृत्याह । विउट्ठितेणं समयाणुसिडे, डहरेण वुड्ढेण व चोतिते तु । अच्चुट्ठिताए घडदासिए वा, अगारिणं वा समयाणुसट्टे ॥८॥ विरुद्धोत्थानेनोत्थितो व्युत्थित: परतीर्थिको गृहस्थो वा मिथ्याद्रष्टिस्तेन व्युत्थितेन यदिवा संयमात् भ्रष्टो व्युत्थितस्तेन साधुः स्खलितः सन् समयानुशासित:, तद्यथा नैवंविधमनुष्ठानं स्वागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि तथा 'डहरेण' क्षुल्लकेन वृद्धेन वा तुशब्दात् समानवयसा वा चोदित: तथा अतीवाऽकार्यकरणं प्रति उत्थिता तया अत्युत्थितया यदिवा दासीत्वेन अत्यन्तोत्थिता दास्या अपि दासीति तामेव विशिनष्टि घटदास्या जलवाहिन्या चोदित: स्वहितं मन्यमानः सुसाधुर्न कुप्येत् । तथा अगारिणां गृहस्थानां य समय : आचारस्तेनानुशासितः समयानुशासित:, यथा गृहस्थानामपि एतन्न कर्तुं युज्यते यदारब्धं भवतेत्येवमात्मापेक्षया लघुनापि चोदितो ममैवैतच्छ्रेय इति मन्यमानो न मनागपि मनो दूषयेदिति ।। ८ ।। एतदेवाह

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162