Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 128
________________ ००००० श्री सूत्रकृताङ्गसूत्रम् एवं तु समणा एगे, मिच्छद्दिठ्ठी अणारिया । सोयं कसिणमावण्णा, आगंतारो महब्भयं ||३१|| एवं तु-सन्मार्गविराधनया उन्मार्गप्रवर्तकतया च एके श्रमणा: शाक्यादयः मिथ्यादृष्टयः अनार्याः कर्माश्रवरूपं कृत्स्नं स्रोत: आपन्नाः सन्तस्ते महाभयं पौनः पुन्येन भवदुःखम् आगन्तारः आगमनशीला भवन्ति, न च तेषां संसारोदधेरास्त्राविणीं नावं व्यवस्थितानां संसारोत्तरणं भवतीति भावः ।। ३१ ।। यतः शाक्यादयो महाभयमागन्तारो भवन्ति तत इदमुपदि - श्यते इमं च धम्ममादाय, कासवेण पवेदितं । तरे सोयं महाघोरं, अत्तत्ताए परिव्व ॥ ३२ ॥ १२३ काश्यपेन वर्धमानस्वामिना प्रवेदितं इमं धर्ममादाय तरेत् महाघोरं स्रोतः । तदेवं आत्मत्राणाय परिव्रजेत् संयमानुष्ठायी भवेदित्यर्थः । क्वचित् पश्चार्धस्याऽन्यथा पाठ: 'कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए' भिक्षुः ग्लानस्य वैयावृत्यम् अग्लान: अपरिश्रान्तः कुर्यात् समाधिना, ग्लानस्य वा समाधिमुत्पादयन्निति ।। ३२ ।। संयमानुष्ठाने परिव्रजेदित्याहविरते गामधम्मेहिं जे केइ जगती जगा । I तेसिं अत्तुवमायाए, थामं कुव्वं परिव्वए ||३३| ग्रामधर्मेभ्यः शब्दादिविषयेभ्यः विरतः सन् ये केचित् जगति संसारे जगन्ति तास्थात्तद्व्यपदेश इति जीवास्तेषाम् आत्मोपमया दुःखमनुत्पादयन् तद्रक्षणे च स्थाम सामर्थ्यं कुर्वन् परिव्रजेदिति ।। ३३ ।। संयमविघ्नकारिणामपनयनार्थमाह अतिमाणं च मायं च तं परिण्णाय पंडिते । " सव्वमेयं निराकिच्चा, निव्वाणं संघए मुणी ||३४|| अतिमानं चकारादतिक्रोधमपि एवं मायां चशब्दाल्लोभं च तं कषायव्रातं संयमपरिपन्थिनं परिज्ञाय पण्डितः सर्वमेनं कषायसमूहं निराकृत्य अपनीय निर्वाणं सन्धयेत् मुनिरिति ।। ३४ ।। किञ्च संधते साहुधम्मं च, पाव धम्मं णिराकरे । उवधाणवीरिए भिक्खू, कोहं माणं न पत्थए ||३५|| साधुधर्मं च ज्ञानादिकं दशविधं सम्यग्दर्शनज्ञानचारित्राख्यं वा अनुसन्धयेत् वृद्धिमापादयेत् चशब्दादनुपालयेच्च पाठान्तरं वा 'सद्दहे साधु धम्मं च । साधुधर्मं मोक्षमार्गत्वेन नि:श

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162