Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 126
________________ addeddakaddardie श्री सूत्रकृताङ्गसूत्रम् reacheducedes१२१] न्त्यनन्ता विनाशं, तेनोदासीनभावं व्रजति मुनिगण: कूपवप्रादिकार्ये ।।१।। तदेवमुभयथापि भाषिते रजसः कर्मणाम् आय: लाभो भवतीत्यतस्तमायं रजसो मौनेनाऽनवद्यभाषणेन वा हित्वा त्यक्त्वा तेऽनवद्यभाषिणो निर्वाणं मोक्षं प्राप्नुवन्तीति ।।२१।। अपि चणिवाणं परमं बुद्धा, णक्खत्ताण व चंदिमा । तम्हा सया जते दंते, निव्वाणं संधते मुणी ।।२२।। यथा नक्षत्राणां चन्द्रमाः प्रधानः तथा निदानपरित्यागेन निर्वाणं प्रधानमिति ये निर्वाणमभिसन्धाय प्रवृत्तास्ते बुद्धा: ज्ञाततत्त्वा एव प्रधाना: नापर इति । यदिवा लोकस्य निर्वाणं प्रधानमित्येवं बुद्धाः प्रतिपादयन्ति, तस्मात् मुनिः सदा दान्त: यतः प्रयत्नवान् सन् निर्वाणं सन्धयेत् निर्वाणा) सर्वां क्रियां कुर्यादिति ।।२२।। किञ्चान्यत्वुज्झमाणाण पाणाणं, किच्चंताण सकम्मणा । आघाति साहु तं दीवं, पतिढेसा पवुच्चती ।।२३।। __ मिथ्यात्वादिभि: स्रोतोभिः संसारसागराभिमुखम् उह्यमानानां नीयमानानां स्वकर्मणा च कृत्यमानानां प्रणिनां यः कश्चिद् गणधराचार्यादिकः तं सम्यग्दर्शनादिभावमार्गरूपं साधु शोभनं द्वीपमाख्याति । एवं च कृत्वा संसारभ्रमणविरतिलक्षणा सम्यग्दर्शनाद्यवाप्तिसाध्या एषा मोक्षप्राप्तिः प्रतिष्ठा प्रोच्यते तत्त्वज्ञैः । यदिवा स भावमार्गोपदेशक: एवाऽऽश्वासभूतत्वात् द्वीपं तथाऽऽधारभूतत्वात् प्रतिष्ठा प्रोच्यत इति ।।२३।। किंभूतोऽसावाश्वासद्वीपो भवति कीदृग्विधेन वाऽसावाख्यायत इत्येतदाहआयगुत्ते सया दंते, छिण्णसोए अणासवे | जे धम्म सुद्धमक्खाति, पडिपुण्णमणेलिसं ||२४|| य आत्मगुप्तः सदा दान्तः छिन्नस्रोता: अनाश्रवः स शुद्ध प्रतिपूर्णं सर्वविरतिरूपम् अनीशम् अद्वितीयं धर्ममाख्यातीति ।।२४।। एवम्भूतधर्ममजानानां दोषाभिधित्सयाहतमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धामो त्ति य मण्णंता, अंतए ते समाहिए ||२५|| तमेव अनन्तरोक्तविशेषणविशिष्टं धर्मम् अविजानन्त : अबुद्धा: अविवेकिन: बुद्धमानिनः वयमेव बुद्धाः स्मः इति च मन्यमानाः सर्वे ते परतीर्थिका: समाधेः सम्यग्दर्शनाख्यात् अन्ते पर्यन्तेऽतिदूरे वर्तन्त इति ।।२५।। किमिति ते समाधेर्दूरे इत्याशङ्याह

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162