Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 135
________________ adddddddddase श्री सूत्रकृताङ्गसूत्रम् dada१३० कास्तु सद्गति प्रापकत्वादनर्थनिवारकत्वाच्च हितं मार्ग ज्ञानादिकं मोक्षमार्गम् अनुशासति प्रजानां जीवानाम् । किञ्च-यथा यथा द्रव्यार्थतया लोके यद्यद्-वस्तु शाश्वतं तत् तथा तथा आहुः, यदिवा अयं जीव लोको यथा यथा मिथ्यात्वादिभिः शाश्वतो भवति तथा तथैवाहः, यस्मिंश्च प्रजा: जन्तवः हे मानव ! नरामरनारकतिर्यग्भेदेन संप्रगाढा: व्यवस्थिता इति ।।१२।।लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्प्रयत्नमाहजे रक्खसा वा जमलोइया वा, जे या सुरा गंधवा य काया । आगासगामी य पुढोसिया य, पुणो पुणो विपरियासुर्वेति ।।१३।। ये च केचन राक्षसाः अनेन व्यन्तराः सर्वेऽपि गृह्यन्ते, तथा यमलौकिका: अम्बादयस्तदुपलक्षणात् सर्वे भवनपतयः, तथा ये च सुराः वैमानिका: चशब्दाज्ज्योतिष्काः, तथा ये गान्धर्वा : विद्याधरा व्यन्तरविशेषा वा, तथा कायाः पृथिवीकायादयः षडपि गृहयन्त इति । पुनरन्येन प्रकारेण सर्वान् संजिधृक्षुराह-ये केचन आकाशगामिन : सम्प्राप्ताऽऽकाशगमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः, तथा ये पृथिव्याश्रिताः पृथिव्यप्तेजोवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियास्ते सर्वेऽपि स्वकृतकर्मभिः पुनः पुनः विपर्यासमुपयान्ति अरहट्टघटीन्यायेन परिभ्रमणमुपयान्तीति ।।१३।। किञ्चान्यत्जमाहु ओहं सलिलं अपारगं, जाणाहिणं भवगहणं दुमोक्खं । जंसी विसन्ना विसयंगणाहिं, दुहतो वि लोयं अणुसंचरंति ।।१४।। ___ यं संसारसागरम् आहुः तीर्थकरगणधरादयः कथमाहुः ? सलिलौघम् चरमोदधेरिव अपारगं तं संसारं दुर्मोक्षं भवगहनं जानीहि अस्तिवादिनामपि किमुत कुमार्गपतितनास्तिकादीनाम् । यस्मिन् संसारे विषण्णाः अवसक्तास्ते कुमार्गपतिता: विषयाऽङ्गनादिभिः वशीकृताः द्विधाऽपि आकाशाश्रितं पृथिव्याश्रितं च स्थावरजङ्गमरूपं वा लोकम् अनुसंचरन्ति, यदिवा द्विधा लिङ्गमात्रप्रव्रज्ययाऽविरत्या च रागद्वेषाभ्यां वा लोकमनुसंचरन्तीति ।।१४।। किञ्चान्यत्ण कम्मुणा कम्म खवेति बाला, अकम्मुणा उ कम्म खति धीरा | मेधाविणो लोभमयावतीता, संतोसिणो णो पकरेंति पावं ||१५|| न कर्मणा सावद्यारम्भेण कर्म पापं क्षपयन्ति अज्ञानत्वात् बाला इव ते बाला:, अपि तु अकर्मणा आश्रवनिरोधेन तु अन्तश: शैलेश्यवस्थायां कर्म क्षपयन्ति धीराः वीरा: लोभमयात् परिग्रहात् अतीताः, अत एव सन्तोषिणः न कुर्वन्ति पापम् । क्वचित् पाठः 'लोभभयादतीता:' लोभश्च भयं च समाहारद्वन्द्वः लोभाद्वा भयं तस्मादतीता इति ।।१५।। लोभातीता: किंभूता भवन्तीत्याह

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162