Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 129
________________ aakakakkakkad श्री सूत्रकृताङ्गसूत्रम् ikaidik१२४ तया श्रद्दधीत चशब्दात्सम्यगनुपालयेच्च तथा पापधर्म प्राण्युपमर्दैन प्रवृत्तं निराकुर्यात् तथा उपधानं तपस्तत्र वीर्यं यस्य स उपधानवीर्यः भिक्षुः साधुः क्रोधं मानं च उपलक्षणान्मायां लोभमपि प्रतिसेवनया न प्रार्थयेत् नाभिलषेदिति ।।३५ ।। अथैवंभूतं भावमार्ग किं वर्धमानस्वाम्येवोपदिष्टवान् उताऽन्योऽपीत्येतदाशङ्कयाहजेय बुद्धा अतिक्कंता, जे य बुद्धा अणागता । संति तेसिं पतिट्ठाणं, भूयाणं जगती जहा ||३६|| ये च बुद्धाः तीर्थकरा अतीते कालेऽनन्ता अतिक्रान्ताः तथा ये बुद्धाः अनागताः भविष्यन्तस्तेऽपि अनन्ताः, तथा महाविदेहेषु साम्प्रतमपि संख्येया: सन्ति ते सर्वेऽपि भावमार्गमुपदिष्टवन्त: उपदिशन्ति उपदेक्ष्यति च, न केवलमुपदिष्टवन्तोऽनुष्ठितवन्तश्चेत्येतदर्शयति तेषां सर्वेषां शान्ति : भावमार्गः प्रतिष्ठानम् आधार: बुद्धत्वस्याऽन्यथानुपपत्ते: यदिवा शान्ति: मोक्ष: स तेषां प्रतिष्ठानम् आधारः, ततस्तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्चेति गम्यते । शान्तिप्रतिष्ठानत्वे दृष्टान्तमाह-भूतानां त्रसस्थावराणां यथा जगती त्रिलोकी प्रतिष्ठानं तथा ते सर्वेऽपि बुद्धा: शान्तिप्रतिष्ठाना इति ।।३६ ।। प्रतिपन्नभावमार्गेण यद्विधेयं तदाहअहणं वतमावण्णं, फासा उच्चावया फुसे । ण तेसु विणिहण्णेज्जा, वातेणेव महागिरी ||३७|| अथ आपन्नव्रतं भावमार्गप्रतिपत्त्यनन्तरं साधं उच्चावचा: नानारूपा: स्पर्शा: परीषहोपसर्गाः स्पृशेयुः, न च तैः विहन्यात् नैव संयमानुष्ठानान्मनागपि विचलेत् वातेनेव महागिरिः मन्दरपर्वत इति ।।३७।। उपसंहरन्नाहसंवुडे से महापण्णे, धीरे दत्तेसणं चरे। निबुडे कालमाकंखी, एवं केवलिणो मयं ||३८|| त्ति बेमि | आश्रवनिरोधात् संवृतः स महाप्रज्ञः धीरः परेण आहारादिके दत्ते सति एषणां चरेत्, तथा निर्वृत्त : शीतीभूत: कालं मृत्युकालं यावद्-आकाङ्केत् एतद् यद् मया प्राक् प्रतिपादितं तत् केवलिन : तीर्थकृतो मतम् । एतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याहकेवलिनो मतमेतदित्येवं भवता ग्राह्यम् इति ब्रवीमि पूर्ववत् ।।३८।। ।। इति मार्गाख्यमेकादशमध्ययनं समाप्तम् ।।

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162