Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 24
________________ ॐ०.०.००८ श्री सूत्रकृताङ्गसूत्रम् [ १९ कारणोच्छेदेनैव कार्योच्छेदात् अपि तु संसार एव जन्मजरामरणाद्यनेकदुःखव्राताघ्राता भूयो भूयोऽरहट्टघटीन्यायेनानन्तमपि कालं संस्थास्यन्ति ।। १० ।। साम्प्रतं प्रकारान्तरेण कृतवादिमतमेवोप न्यस्यन्नाह सुद्धे अपावए आया, इहमेगेसि आहितं । पुणो कीडा-पदोसेणं, से तत्थ अवरज्झति ||११|| इह-अस्मिन् कृतवादिप्रस्तावे एकेषां त्रैराशिकाणां गोशालकमतानुसारिणाम् आख्यातं, तथाहि - अ हॆ-अयम् आत्मा (१) शुद्धः शुद्धाचारो भूत्वा (२) मोक्षे अपापको अपगताशेषकर्मा भवति, पुन: असावात्मा शुद्धत्वाकर्मत्वराशिद्वयावस्थो भूत्वा तत्र मोक्षस्थ एव स्वशासनपूजामुपलभ्यान्यशासनपराभवं चोपलभ्य क्रीडयति-प्रमोदते, स्वशासनन्यक्कारदर्शनाच्च प्रद्वेष्टि एवं क्रीडाप्रद्वेषाभ्यां मोक्षस्थ एव (३) अपराध्यति - रजसा श्लिष्यते, ततोऽसौ कर्मगौरवाद्भूयः संसारेऽवतरति, अस्यां चावस्थायां सकर्मत्वात्तृतीयराश्यवस्थो भवति ।। ११ ।। किंचइह संवुडे मुणी जाते, पच्छा होति अपावए । विडं व जहा भुज्जो, नीरयं सरयं तहा ||१२|| इह - मनुष्यभवे प्राप्तो मुनिः भूत्वा संवृतः - यमनियमरतो जातः सन् पश्चाद् अपापको भवति, ततः स्वशासनं प्रज्वाल्य मुक्त्यवस्थो भवति, पुनरपि शासनपूजानिकारदर्शनाद् रागद्वेषोदयात् सकर्मा भवति यथा विकटाम्बु-उदकं निरजस्कं सद् वातोद्धतरेणुसंपृक्तं सरजस्कं भूयो भवति तथा-एवं त्रैराशिकानामुक्तक्रमेण राशित्रयावस्थो भवत्यात्मा । उक्तं च“दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ।। १ ।। इति ।। १२ ।। अधुनैतदूषयितुमाह ताणुवीति मेधावि, बंभचेरे ण ते वसे । पुढो पावाउया सव्वे, अक्खायारो सयं सयं ||१३|| एतान्-राशित्रयवादिनो देवोप्तादिलोकवादिनश्च अनुविचिन्त्य मेधावी एतदवधारयेत्, यथा- - नैते वादिनो ब्रह्मचर्ये तदुपलक्षिते संयमानुष्ठाने वसेयुः तथाहि तेषामयमभ्युपगमो यथा स्वदर्शनपूजानिकारदर्शनात् कर्मबन्धो भवति, एवं चावश्यं तद्दर्शनस्य पूजया तिरस्कारेण वोभयेन वा भाव्यं, तत्संभवाच्च कर्मोपचयस्तदुपचयाच्च शुद्धयभावः, शुद्धयभावाच्च मोक्षाभाव:, न च मुक्तानां रागद्वेषानुषङ्गः, तदभावाच्च कुतः पुनः कर्मबन्धः तद्वशाच्च संसारावतरणम् ? अतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यग्ज्ञानाभावान्न ते सम्यगनुष्ठानभाज इति स्थितम् । अपिच- सर्वे अप्येते प्रावादुकाः पृथक् पृथक् स्वकं स्वकं दर्शनं

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162