Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 47
________________ aaaaaaad श्री सूत्रकृताङ्गसूत्रम् ४२ आहतिविहेण वि पाणि मा हणे, आयहिते अणियाण संवुडे । एवं सिद्धा अणंतगा, संपति जे य अणागयाऽवरे ||२१|| त्रिविधेनाऽपि योगात्रिकेण करणत्रिकेण वा प्राणिनो मा हन्यात्-, तथा आत्महितः अनिदान: संवृतः सन्नवश्यं सिद्धिमवाप्नोतीत्येतद्दर्शयति-एवं-अनन्तरोक्तमार्गानुष्ठानेन अनन्ताः सिद्धाः संप्रति च सिध्यन्ति, अपरे चानागतकाले सेत्स्यन्ति, नापर: सिद्धिमार्गोऽस्तीति भावार्थः ।।२१।। एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्य: स्वशिष्येभ्य: प्रतिपादयतीत्याहएवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्तरनाणदंसणधरे । अरहा णायपुत्ते भगवं, वेसालीए वियाहिए ।।२२।। एवं स ऋषभस्वामी उदाहृतवान् प्रतिपादितवान् अनुत्तरज्ञानी अनुत्तरदर्शी अनुत्तरज्ञानदर्शनधर : अर्हन् ज्ञातपुत्रः वर्धमानस्वामी भगवान् विशाल्यां नगर्यां अथवा विशालकुलोद्भवो वैशालिको ऋषभस्वामी व्याख्यातेति ।।२२।। इति कम्मवियालमुत्तमं जिणवरेण सुदेसियं सया। जे आचरंति आहियं खवितरया वइहिंति ते सिवं गतिं ।।२३त्ति बेमि गतार्था । तृतीय उद्देशक : समाप्तः, तत्समाप्तौ च समाप्तं द्वितीयं वेतालीयमध्ययनम् ।। ।। अथ तृतीयमुपसर्गाध्ययनं प्रारभ्यते ।। अस्य चायमभिसम्बन्धः इहानन्तरं परसमयदोषान् स्वसमयगुणांश्च परिज्ञाय स्वसमये बोधो विधेय इत्यभिहितं, तस्य च प्रतिबुद्धस्य सम्यगुत्थानेनोत्थितस्य सत: कदाचिदनुकूलप्रतिकूलोपसर्गा: प्रादुर्भवेयुः ते चोदीर्णा: सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते, ततोऽनेन सम्बन्धेनायातस्यास्याध्ययनस्यादिसूत्रमिदम्सूरं मन्नति अप्पाणं, जाव जेतं न पस्सति । जुज्झंतं दढधम्माणं, सिसुपाले व महारहं ।।१।। कश्चिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते सति तावदेव आत्मानं शूरं मन्यते यावज्जेतारं न पश्यति यथा वासुदेवदर्शनात् प्राग्गर्जनाप्रधानोऽपि शिशुपाल:पश्चाद् युध्यमानं दृढधर्माणं-सङ्ग्रामाभङ्गरूपदृढस्वभावं महारथं नारायणं दृष्ट्वा क्षोभं गतः, एतच्चोतरत्र दालन्तिके

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162