Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 100
________________ ॐ०००. श्री सूत्रकृताङ्गसूत्रम् ००० ९५ निक्खम्म दीणे परभोयणम्मि, मुहमंगलिए उदरियाणुगिद्धे । नीवार गिद्धे व महावराहे, अदूर एवेहति धातमेव ||२५|| स्वकीयं धनधान्यादिकं त्यक्त्वा निष्क्रम्य च परभोजने दीनो रसनेन्द्रियवशगो बन्दिवत् मुखे मङ्गलानि प्रशंसावाक्यानि यस्य स मुखमाङ्गलिक: चाटुकारी भवति । एवम् उदरानुगृद्धो नीवारगृद्धः सूकरादिमृगभक्ष्याऽऽसक्तः महावराहः महाकाय : सूकर इव अदूर एव शीघ्रमेव घातं विनाशम् एष्यति यास्यतीति ।। २५ ।। किञ्चान्यत् अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च निस्सारए होति जहा पुलाए ||२६|| 1 स कुशील: अन्नस्य पानस्य इहलौकिकस्य च कृते वस्त्रादेः सेवकवत् अनुप्रियम् अनुभाषते दातारं सेवमानः स एवं पार्श्वस्थत्वं कुशीलत्वं च गच्छति । तथा निष्कणः पुलाक : तुषमात्रावशेष इव निस्सारो भवति संयमानुष्ठानं निस्सारीकरोतीत्यर्थः ।। २६ । । उक्त : कुशीलाः, पुन: सुशीलानाह अण्णातपिंडेणऽधियासएज्जा, नो पूयणं तवसा आवहेज्जा । सद्देहिं रूवेहिं असज्जमाणे, सव्वेहिं कामेहिं विणीय गेहिं ॥ २७ ॥ अज्ञातपिण्डेन अन्तप्रान्तेन लब्धेन समचित्तः सन् अध्यासयेत् अधिसहेत् अलब्धेन न दैन्यं कुर्यात्, नाप्युत्कृष्टेन लब्धेन मदं विदध्यादित्यर्थः । तपसा न पूजनमावहेत् न पूजासत्कारनिमित्तं तपः कुर्यादित्यर्थः । तथा शब्देषु रूपेषु अपि असजन् एवं सर्वेभ्यः कामेभ्यो गृद्धिम् विनीय अपनीय संयममनुपालयेदिति ।। २७ ।। किञ्च सव्वाइं संगाई अइच्च धीरे, सव्वाइं दुक्खाइं तितिक्खमाणे । अखिले अगिद्धे अणि यचारी, अभयंकरे भिक्खू अणाविलप्पा ||२८|| सर्वान् सङ्गान् अतीत्य त्यक्त्वा धीरः परीषहोपसर्गजनितानि सर्वाणि दुःखानि तितिक्षमाणः अधिसहन्, अखिल : ज्ञानादिभि: सम्पूर्ण:, कामेषु अगृद्धः, अनियतचारी अप्रतिबद्धविहारी, जीवानाम् अभयङ्करो भिक्षुः, विषयकषायैः अनाविलात्मा अनाकुलस्वभावः सन् संयममनुवर्तत इति ।। २८ ।। किञ्च भारस्स जाता मुणि भुंजएज्जा, कंखेज्ज पावस्स विवेग भिक्खू | दुक्खेण पुढे धुयमातिएज्जा, संगामसीसे व परं दमेज्जा ||२९||

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162