Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 113
________________ daddedbaadaanade श्री सूत्रकृताङ्गसूत्रम् aaaaaaaai१०८ निति ।।२४।। किञ्चान्यत्भासमाणो न भासेज्जा, णेय वंफेज्ज मम्मयं । मातिट्ठाणं विवज्जेजा, अणुविति वियागरे ।।२५।। अन्यः कश्चिद्रत्नाधिको भाषमाणः स्यात्तत्रान्तर एव सश्रुतिकोडमित्येवमभिमानवान् न नैव भाषेत, मर्म गच्छतीति मर्मगं मामकं वा पक्षपातं न वंफेज्जा देशीयपदमेतत् अनुचितोल्लापार्थम् । अयं भाव कस्यचिदपि मन:पीडाकारि वचनं न भाषेत । तथा मातृस्थानं मायाप्रधानं वचो विवर्जयेत् तथा अनुचिन्त्य व्याकुर्यात् भाषेतेति ।।२५।। अपि चतत्थिमा ततिया भासा, जं वदित्ताऽणुतप्पती । जह छन्नं तं न वत्तवं, एसा आणा नियंठिया ||२६|| भाषा चतुर्धा, तथाहि-सत्या मृषा सत्यामृषा असत्यामृषा च तत्रेमा तृतीया भाषा सत्यामृषा तां न भाषेत यतो दोषाय किं पुनर्द्वितया मृषा समस्तार्थविसंवादिनी यां च उदित्वा अनुतप्यते पीड्यते पश्चात्तापं वा विधत्ते तां न वदेत, अथ सत्यामाश्रित्याह-'क्षणु हिंसायामिति' यत् छन्नं विहिंसकं सत्यमपि तन्न वक्तव्यम्, यदिवा प्रछन्नं-रहस्यं तन्न भाषितव्यम्, एषाऽऽज्ञा अयमुपदेशो निर्ग्रन्थो-भगवांस्तस्येति ।।२६।। होलावायं सहीवायं, गोतावायं च नो वदे । तुमं तुमं ति अमणुण्णं, सव्वसो तं ण वत्तए ॥२७॥ होलावादं रेकारपूर्वकमामन्त्रणवचनम, सखिवादं सखेत्येवंवादस्तम्, तथा-गोत्रोद्धाटनेन वादो गोत्रवादस्तं नो वदेत्, यो वृद्धः प्रभविष्णुर्वा तं प्रति त्वं त्वमिति न वक्तव्यम्, किं बहुना ? यद् अमनोज्ञं तत् सर्वशः साधूनां वक्तुं न पार्यत इति ।।२७।। अपि च- . अकुसीले सया भिक्खू, णो य संसग्गिय भए । सुहरूवा तत्थुवस्सग्गा पडिबुज्झेज्ज ते विदू ॥२८॥ अकुशील: सदा भिक्षुः पार्श्वस्थादिभि: कुशीलैः सार्धं संसर्गितां साङ्गत्यं नैव भजेत यतस्तत्र कुशीलसंसर्गे सुखरूपा: सातगौरवस्वभावा उपसर्गाः प्रादुष्यन्ति । विद्वान् तान् उपसर्गान् प्रतिबुध्येत् तथाहि-ते कुशीला वक्तारो भवन्ति-कः किल प्रासुकोदकेन हस्तपादादिके प्रक्षाल्यमाने दोष: स्यात् ? तथा नाशरीरो धर्मो भवत्यतो येन केनचित् प्रकारेणाऽऽधाकमसन्निध्यादिना तथा उपानच्छत्रादिना च शरीरं धर्माधारं वर्तयेदित्यादि । तदेतत्सर्वं बुद्ध्वा च कुशीलसंसर्गं परिहरेदिति ।।२८।। किञ्चान्यत्

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162