Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 112
________________ ॐॐॐॐॐॐ श्री सूत्रकृताङ्गसूत्रम् ०१०७ परस्य गृहस्थस्याऽमत्रं भाजनं तत्र परामत्रे अन्नपानं न भुञ्जीत मुनिः कदाचिदपि तथा परवस्त्रम् गृहस्थस्य वस्त्रं अचेलोऽपि वस्त्ररहितोऽपि सन् न भुञ्जीत पूर्वकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवात् तत् एतत् सर्वं विद्वान् परिजानीयात् ज्ञपरिज्ञया संयमविराधकत्वेन परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।। २० ।। तथा आसंदी पलियंके य, णिसिज्जं च गिहंतरे । संपुच्छणं च, सरणं च तं विज्जं परिजाणिया ||२१|| आसंदी आसनविशेष:, पर्यङ्कः शयनविशेष: गृहस्यार्न्तमध्ये गृहयोर्वा मध्ये निषद्याम् उपवेशनम्, तत्र च संप्रच्छनं कुशलादिप्रच्छनम् आत्मीयशरीरावयवानां वा पुञ्छनम् तथा स्मरणं पूर्वक्रीडितस्य तद् एतत् सर्वं विद्वान् परिजानीयात्- ज्ञपरिज्ञयाऽनर्थायेति परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।। २१ ।। अपि च जसं कित्तिं सिलोगं च जा य वंदणपूयणा । " सव्वलोयंसि जे कामा, तं विज्जं परिजाणिया ||२२|| यश कीर्तिं श्लोकं श्लाघा च या च राजादिभ्यो वन्दना पूजना तथा सर्वस्मिन् लोके ये कामा: इच्छामदनरूपाः तद् एतत् सर्वं विद्वान् परिजानीयात् ज्ञपरिज्ञयाऽपकारितया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।। २२ ।। किञ्चान्यत् जेहं णिव्वहे भिक्खू, अन्न-पाणं तहाविहं । अणुप्पदाणमन्नेसिं, तं विज्जं परिजाणिया ||२३ ॥ येन अन्नपानेन तथाविधेन सुपरिशुद्धेन कारणापेक्षया अविशुद्धेन वा इह अस्मिल्लोके संयमयात्रादिकं दुर्भिक्षरोगातङ्कादिकं वा निर्वहेद् निर्वाहयेद्वा तद् अन्नपानं द्रव्यकालाद्यपेक्षया तथाविधं कल्प्यं गृह्णीयात् । तदन्नपानादेश्वान्यस्मै साधवे अनुप्रदानं कुर्यात् । तथा तेषाम् अन्नपानादीनां अनुप्रदानं गृहस्थानां परतीर्थिकानां स्वयूथ्यानां वा संयमोपघातकं नानुशीलयेत् । तत् एतत् सर्वं विद्वान् परिजानीयात् ज्ञपरिज्ञया ज्ञात्वा सम्यक् परिहरेदिति ।। २३ ।। अथैतत्सर्वं यदुपदेशेन कुर्यात्तद्दर्शयितुमाह एवं उदाहु निग्गंथे, महावीरे महामुणी । अणंतणाणदंसी से, धम्मं देसितवं सुतं ||२४|| एवं अनन्तरोक्तया रीत्या उदाहृतवान् उक्तवान् निर्ग्रन्थ : महावीर : महामुनिः अनन्तज्ञानदर्शनी स भगवान् धर्मं चारित्रलक्षणं तथा श्रुतं जीवादिपदार्थसंसूचकं देशितवा

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162