Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 68
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् अदु णातिणं व सुहिणं वा, अप्पियं ट्टु एगता होति । गिद्धा सत्ता कामेहिं, रक्खण-पोसणे मणुस्सोऽसि ||१४|| I अथ स्त्रीभि: सह साधुं दृष्ट्वा ज्ञातीनां वा सुहृदां वा एकदा अप्रियं भवति, तथाहिएते प्रव्रजिता अपि गृद्धाः सक्ताः कामेषु । तथैवमपि ते वदेयुः हे ! श्रमण ! त्वमस्या रक्षणं पोषणं च कुरु । अतः परं त्वमेवाऽस्याः मनुष्योऽसीति ।। १४ ।। किञ्चान्यत्समणं पि दट्ठदासीणं, तत्थ वि ताव एगे कुप्पंति । अदुवा भोयणेहिं णत्थेहिं, इत्थीदोससंकिणो होंति ||१५|| स्त्रीसहगतम् उदासीनमपि श्रमणं दृष्ट्वा तत्रापि श्रमणेऽपि तावदेके कुप्यन्ति । अथवा प्रतिलम्भनार्थम् उपन्यस्तै : ढौकितैः पानभोजनैः स्त्रीदोषशंकिनो व्यभिचारिणीति शंकाविधायिनो गृहस्था भवन्तीति ।। १५ ।। किञ्च - कुव्वंति संथवं ताहिं पब्भट्ठा समाहिजोगेहिं । " तम्हा समणा ण समेंति, आतहिताय सण्णिसेज्जाओ ||१६|| ६३ कुर्वन्ति संस्तवं ताभि: स्त्रीभिर्ये ते प्रभ्रष्टाः समाधियोगेभ्य:- ज्ञानदर्शनचारित्रयोगेभ्यः । तस्मात् श्रमणा न समेन्ति - समुपागच्छन्ति आत्महिताय संज्ञिशय्याः - स्त्रीवसतीः । पठ्यते च-‘तम्हा समणा उ जहाहि अहिताओ सन्निसेज्जाओ । तथा च - यस्मात् स्त्रीसम्बन्धः अहिताय तस्मात् हे श्रमण ! जहाहि-त्यज संज्ञिशय्या इति ।। १६ ।। किं प्रव्रजिता अप्येवं स्त्रीसम्बन्धं कुर्युः ? ओमित्युच्यते बहवे गिहाइं अवहट्टु, मिस्सीभावं पत्थुता एगे । धुवमग्गमेव पवदंति, वायावीरियं कुसीलाणं ||१७|| बहवः साध्वाभासा गृहाणि अपहृत्य त्यक्त्वा पुनर्मोहोदयात् मिश्रीभावं द्रव्यलिंगमात्रं प्रस्तुताः-समनुप्राप्तास्ते न गृहस्था नापि प्रव्रजिताः । एवम्भूता अपि ध्रुवमार्गं - मोक्षमार्गं संयममार्गं वा भाषन्ते, तथाहि अस्मदारब्धोऽयमेव मध्यमो मार्गः श्रेयान् । तत्तेषां कुशीलानां वाचावीर्यमेव नानुष्ठानकृतमिति ।।१७।। अपि च सुद्धं रवति परिसाए, अह रहस्सम्मि दुक्कडं करेति । जाणंति य णं तहावेदा, माइल्ले महासढेऽयं ति ||१८|| शुद्धं रवति-गर्जति पर्षदि, अथ रहसि दुष्कृतं करोति । स हि मोहमूढो मन्यते यथा- न मां कश्चित् पश्यति तथापि जानन्ति च तं तथाविदः कामविदः सर्वज्ञा वा, तथाहि

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162