Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 72
________________ aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् ॐasai६७ स्त्रियः पादमुध्दृत्य मूर्ध्नि प्रहन्ति ।। २ ।। अन्यच्चजइ केसिया णं मए भिक्खू, णो विहरे सह णमित्थीए । केसाणऽविह लुचिस्सं, नऽन्नत्थ मए चरिज्जासि ||३|| अह णं से होई उवलद्धो, तो पेसंति तहाभूएहिं । अलाउच्छेदं पेहेहि, वग्गुफलाइं आहाराहित्ति ||४|| दारुणि सागपागाए, पज्जोओ वा भविस्सती राओ । पाताणि य मे रयावेहि, एहि य ता मे पिट्टओमद्दे ।।५।। वत्थाणि य मे पडिलेहेहि, अन्नपाणं च आहाराहित्ति । गंधं च रओहरणं च, कासवगं च मे समणुजाणाहि ||६|| हेभिक्षो ! यदि केशिकया सकुन्तलया मया स्त्रिया सहन विहरेस्तदाऽहं केशानपि लुञ्चयिष्यामि परं मया रहितस्त्वं नान्यत्र चरेरिति ।।३।। __अथ स मदनुरक्त इत्येवं भवति उपलब्धः ज्ञातः । ततस्ताः तथाभूतैः लिङ्गस्थयोग्यैर्व्यापारै: प्रेषयन्ति, तथाहि अलाबु-तुम्बं छिद्यते येन तद् अलाबुछेदं-पिष्पलकादि शस्त्रं प्रेक्षस्व-लभस्व, तथा वल्गूनि-शोभनानि फलानि नालिकेरादीनि अलाबुफलानि वा यदि वा वाक्फलानि-धर्मकथाफलानि वस्त्रादिलाभरूपाणि त्वम् आहर आनयेति ।।४।। अपि च दारूणि-काष्ठानि शाकपाकाय पाठान्तरेण चान्नपाकाय, रात्रौ प्रद्योतो वा भविष्यतीति अटवीत आहर, पादौ च मे अलक्तादिना रञ्जय तथोपविष्टया मेऽङ्गं बाधतेऽत एहि तावन्मे पृष्ठिम् उन्मर्दयेति ।। ५ ।। किञ्च वस्त्राणि च मे जीर्णप्रायाणीति अन्यानि प्रत्युपेक्षस्व निरूपय यतो लभ्यन्ते, नाहं शक्नोमि हिण्डितुमिति अन्नं पानं च मे आहर आनयेति । तथा गन्धं पाठान्तरेण च ग्रन्थं वा हिरण्यादि रजोहरणं च शोभनं तथा लोचं कारयितुमशक्तेति काश्यपं नापितं च मे आनयेति पाठान्तरमाश्रित्य 'समणुजाणिहि' तथा च हे श्रमण ! अनुजानिहि नापितमिति ।।६।। अनन्तरं लिङ्गस्थोपकरणान्याश्रित्योक्तम्, अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयतेअदु अंजणिं अलंकारं, कुक्कुहयं च मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ||७|| अथ अञ्जनी-कज्जलनलिकाम् अलङ्कारं वा कुक्कुहगं खुंखुणकं वीणाविशेषं मे प्रयच्छ येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि । तथा लोधं च लोध्रकु

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162