Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 89
________________ aakakiraikikat श्री सूत्रकृताङ्गसूत्रम् adaakadcas८४] से वीरिएणं पडिपुण्णवीरिए, सुदंसणे वा णगसबसेढे । सुरालएवासिमुदागरे से, विरायतेऽणेगगुणोववेते ।।९।। __स भगवान् वीर्येण प्रतिपूर्णवीर्यः यथा सुदर्शन: मेरुः सर्वश्रेष्ठः नगः पर्वतः सुरालयवासिनां-देवानां मुदाकर: विराजते तथा अनेकगुणोपेतः विराजत इति ।।९।। पुनरपि दृष्टान्तभूतमेरुवर्णनायाहसयं सहस्साण उ जोयणाणं, तिगंडे से पंडगवेजयंते । से जोयणे णवणवते सहस्से, उड्ढुस्सिते हेट्ठ सहस्समेगं ||१०|| स मेरु: योजनसहस्राणां शतम् उच्चस्त्वेन, भौमं जाम्बूनदं वैडुर्यं चेति त्रीणि कण्डान्यस्येति त्रिकण्डः, पण्डकं वनं शिरसि व्यवस्थितं वैजयन्तीभूतं पताकातुल्यं यस्य स पण्डकवैजयन्तः, तथाऽसौ ऊर्ध्वमूच्छ्रित: नवनवतिर्योजनसहस्राणि अधश्च सहस्त्रमेकम् अवगाढ इति ।।१०।। तथापुढे णमे चिट्ठति भूमिए ठिते, जं सूरिया अणुपरियट्टयंति। से हेमवण्णे बहुणंदणे य, जंसी रतिं वेदयंती महिंदा ||११|| असौ भूमिमवस्थितः सन् नभः पातालं च स्पृष्टः लग्नः तिष्ठति, यं च सूर्याः अनुपर्यटयन्ति, तथाऽसौ हेमवर्णः तथा बहून् सत्त्वान् नन्दतीति बहुनन्दनः यदिवा बहूनि चत्वारि भद्रशालवनं नन्दनं सौमनसं पण्डकं चेति नन्दनवनानि यस्य स तथा, यस्मिन्नागत्य रतिं वेदयन्ति महेन्द्रा: महान्त इन्द्रा इति ।।११।। अपि चसे पवते सद्दमहप्पगासे, विरायती कंचणमट्ठवण्णे । अणुत्तरे गिरिसु य पव्वदुग्गे, गिरीवरे से जलिते व भोमे ।।१२।। असौ पर्वतः सुदर्शन-मन्दर-पर्वतराज-सुरगिरिप्रभृतिभि: शब्दैः महान् प्रकाश:- प्रसिद्धिर्यस्य स शब्दमहाप्रकाश: विराजते, काञ्चनस्येव मृष्टः श्लक्ष्णः शुद्धो वा वर्णो यस्य स काञ्चनमृष्टवर्णः, एवमसौ अनुत्तरः, तथा गिरिषु च पर्वभिः मेखलादिभिर्दष्ट्रापर्वतैर्वा दुर्गो दुरारोह इति पर्वदुर्ग: गिरिवरः मणिभिरौषधिभिश्च ज्वलित: भौम: भूदेश इवेति ।।१२।। किञ्चमहीय मज्झम्मि ठिते णगिंदे, पण्णायते सूरियसुद्दलेस्से | एवं सिरीए उ स भूरिवण्ण, मणोरमे जोयइ अच्चिमाली ।।१३।। मह्यां मध्ये स्थित: नगेन्द्रः मेरुः प्रज्ञायते लोके सूर्यशुद्धलेश्य: आदित्यतुल्यतेजाः । एवं स मेरुः श्रिया तु भूरिवर्ण : विविधवर्णरत्नोपशोभितत्वात् मनोरम: द्योतयति

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162