Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 90
________________ 5. श्री सूत्रकृताङ्गसूत्रम् ८५ प्रकाशयति अर्चिमालीव आदित्य इव दशाऽपि दिश इति ।। १३ ।। अथ मेरुपमानं भगवति योजयति सुदंसणस्सेस जसो गिरिस्स, पवुच्चती महतो पव्वतस्स । एतोवमे समणे नायपुत्ते, जाती- जसो दंसण - णाणसीले ||१४|| एतदनन्तरोक्तं यशः' सुदर्शनस्य गिरे : महतः पर्वतस्य प्रोच्यते एतदुपम : श्रमण : ज्ञातपुत्र: श्री वर्धमानस्वामी जात्या यशसा दर्शनेन ज्ञानेन शीलेन च सर्वश्रेष्ठ इति ।। १४ ।। पुनरपि दृष्टान्तान्तरेण भगवतो वर्णनमाह गिरीवरे वा निसहाऽऽयताणं, रुयगे व सेट्टे वलयायताणं । ततोवमे से जगभूतिपण्णे, मुणीण मज्झे तमुदाहु पण्णे ||१५|| यथा निषध: गिरिवर: आयतानां गिरीणां मध्ये दैर्येण श्रेष्ठः, तथा वलयायतानां मध्ये रुचकः पर्वतः श्रेष्ठस्तथा स भगवानपि तदुपम : जगति भूतिप्रज्ञ: प्रज्ञया श्रेष्ठः । अत एव तं भगवन्तं मुनीनां मध्ये प्रज्ञ: इति तत्स्वरूपविदः उदाहृतवन्तः उक्तवन्त इति ।। १५ ।। किञ्चान्यत्– अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाई | सुसुक्कसुक्कं अपगंडसुक्कं, संखेंदु वेगंतवदातसुक्कं ||१६|| नास्योत्तरः प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरस्तम् अनुत्तरं धर्मम् उदीरयित्वा उपदिश्य अनुत्तरं ध्यानवरं ध्यायति, तथाहि-उत्पन्नज्ञानो योगनिरोधकाले शुक्लध्यानस्य तृतीयभेदं तथा निरुद्धयोगश्च चतुर्थंभेदं ध्यायति, एतदेव दर्शयति-सुशुक्लशुक्लं सुष्ठु शुक्लवत् शुक्लम् अपगण्डशुक्लम् अपगतं गण्डं कलुषं यस्य तदपगण्डं निर्दोषाऽर्जुनसुवर्णवत् शुक्लं यदिवा अपगण्डम् उदकफेनं तद्वत् शुक्लम् तथा शङ्खेन्दुवत् एकान्तावदातशुक्लं ध्यानं ध्यायतीति ।। १६ ।। किञ्च - अणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता । सिद्धिं गतिं साइमणंतपत्ते, नाणेण सीलेण य दंसणेणं ||१७|| स महर्षि : भगवान् ज्ञानेन दर्शनेन शीलेन च अशेषं कर्म विशोधयित्वा क्षपयित्वा साद्यनन्तां अनुत्तराग्रां लोकाग्रव्यवस्थितत्वात् परमां सिद्धिगतिं प्राप्त इति ।। १७ । । पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162