Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 95
________________ addadakaitiacaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaaaduddit९० जे मायरं च पियरं च हेच्चा, समणबदे अगणि समारभेज्जा । अहाहु से लोगे कुसीलधम्मे, भूताई जे हिंसति आतसाते ||५|| ये मातरं पितरं स्वजनादिनां च हित्वा त्यक्त्वा श्रमणव्रते उपस्थिता अपि अग्नि समारभन्ते तानाश्रित्य अथ तीर्थकरगणधरा: आहुः यथा स पाषण्डिलोकः कुशीलधर्मा य आत्मसातं स्वकीयसुखार्थम् अग्निकायिकादीनि भूतानि हिनस्तीति ।।५ ।। अथाऽग्निकायसमारम्भे यथा हिंसा भवति तथा दर्शयन्नाहउज्जालओ पाण निवातएज्जा, निव्वावओ अगणि निवातइज्जा । तम्हा उ मेहावि समिक्ख धम्म, ण पंडिते अगणि समारभेज्जा ||६|| ___ अग्निम् उज्ज्वालयन् अग्निकायमपरांश्च पृथ्व्याद्याश्रितान् स्थावरान् त्रसांश्च प्राणिनः निपातयेद् विनाशयेत् तथा अग्निम् उदकादिना निर्वापयन् विध्यापयन् उदकादीन् तदाश्रितांश्च प्राणिनः निपातयेत् । यस्मादेवमुभयथापि प्राणातिपात: तस्मात्, तु मेधावी समीक्ष्य धर्म पण्डितः नाग्नि समारभते ।।६।। कथमग्निकायसमारम्भेणापरप्राणिवधो भवतीत्याशङ्क्याहपुढवी वि जीवा आऊ वि जीवा, पाणा य संपातिम संपयंति । संसेदया कट्ठसमस्सिता य, एते दहे अगणि समारभंते ||७|| पृथ्व्यपि जीवाः, आपोऽपि जीवाः, एतदुभयनिश्रिताश्च जीवाः, प्राणिनश्च सम्पातिमाः शलभादय: अग्नौ संपतन्ति, संस्वेदजाः करिषादिष्विन्धनेषु, काष्ठसमाश्रिताश्च घुणपिपीलिकादयश्च एतान् त्रसस्थावरान दहेद् यस्तापसादिक: अग्निकायं समारभेतेति ।।७।। साम्प्रतं ते चान्ये वनस्पतिकायसमारम्भादनिवृत्ताः परामृश्यन्तेहरिताणि भूताणि विलंबगाणि, आहारदेहाइं पुढो सिताई। जे छिंदती आतसुहं पडुच्चा, पागब्भि पाणे बहुणं तिवाती ||८|| हरितानि दूर्वाऽङ कुरादीनि सङ्ख्येयाऽसङ्ख्येयानन्तभेदभिन्नानि भूतानि जीवा मनुष्यवद् गर्भप्रसवबालकुमारयुवमध्यमस्थविराद्यवस्थालक्षणं जीवाकारं विलम्बन्ति धारयन्तीति विलम्बकानि आहारादेर्वृद्धिदर्शनाद् आहारं देहांश्च मूलस्कन्धशाखापत्रपुष्पादिलक्षणान् पृथक प्रत्येकं श्रितानि । एतानि वनस्पतिकायिकानि यच्छिनत्ति आत्मसुखम् आहारादिलक्षणं प्रतीत्य स प्रागल्भी निरनुक्रोशमति: वनस्पतिकायिकानां तदाश्रितानाञ्च बहूनां प्राणिनाम् अतिपाती विनाशको भवति तदतिपाताच्च निरनुक्रोशतया न धर्मो नाप्यात्मसुखमित्यर्थः ।।८।। किञ्च

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162