Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 61
________________ Madaanadaadase श्री सूत्रकृताङ्गसूत्रम् sadaaaaaaad ५६ | आसिले देविले चेव, दीवायण महारिसी । पारासरे दगं भोच्चा, बीयाणि हरियाणि य ॥३॥ आसिलो देविलो द्वैपायनः पाराशरश्च महर्षयो दकं शीतोदकं बीजानि हरितानि च भुक्तवा सिद्धा इति श्रूयते ।।३ ।। एतदेव दर्शयितुमाहएते पुव्वं महापुरिसा, आहिता इह संमता । भोच्चा बीओदगं सिद्धा, इति मेतमणुस्सुतं ||४|| एते नम्यादयो महर्षयः पुर्वमहापुरुषा आख्यातास्ते इह-आर्हतप्रवचनेऽपि केचन सम्मता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः तद्यथा-एते सर्वेऽपि बीजोदकादिकं भुक्त्वा यथा सिद्धा इत्येतन्मया भारतादौ पुराणे अनुश्रुतं तथा वयमप्येवमेव सिद्धिं साधयिष्याम इति ।।४।। एतदुपसंहारद्वारेण परिहरन्नाहतत्थ मंदा विसीयंति, वाहछिन्ना व गद्दभा । पिट्ठतो परिसप्पंति, पीढसप्पी व संभमे ||५|| तत्र-कुश्रुत्युपसर्गोदये मन्दा विषीदन्ति-शीतलविहारिणो भवन्ति यथा वाहच्छिन्ना वा भारोद्वहनत्रुटिता गर्दभाः पृष्ठसर्पिणो-भग्नगतयो वा अग्न्यादिके सम्भ्रमे प्रणष्टजनस्य पृष्ठतः परिसर्पन्ति नाग्रगामिनो भवन्ति, अपितु तत्रैवाग्न्यादिसम्भ्रमे विनश्यन्ति । एवं मोक्षं प्रति प्रवृत्ता अपि तस्मिन्नेव संसारे अनन्तमपि कालं यावदास्त इति ।।५ ।। अथ मतान्तरं निराकर्तुं पूर्वपक्षयितुमाहइहमेगे उ भासंति, सातं सातेण विज्जती । जे तत्थ आरियं मग्गं, परमं च समाहियं ॥६॥ इह एके शाक्यादयः स्वयूथ्या वा एवं भाषन्ते, तथाहि-सातं सातेन विद्यते, सुखं सुखेन लभ्यत इत्यर्थः, न च लोचादिकष्टान्मुक्तिरिति । एवं ये तत्र-मोक्षविचारप्रस्तावे भाषन्ते ये च आर्य मार्ग परमं च समाधि-ज्ञानदर्शनचारित्रात्मकं परिहरन्ति ते सर्वे भवोदधौ पर्यटन्तीति ।।६।। अत उपदिश्यतेमा एयं अवमन्नता, अप्पेणं लुपहा बहुं । एतस्स अमोक्खाए, अयहारि व जूरहा ||७|| मा एनं-जैनेन्द्रमार्गम् अवमन्यमाना यूयम् अल्पेन वैषयिकसुखेन बहु-मोक्षसुखं लुम्पथ विध्वंसथ । अपि च-एतस्य ‘सुखं सुखेनैव विद्यत' इत्येतदसदभ्युपगमस्य अमोक्षे-अपरित्यागे

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162