Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 26
________________ aadaaaaaaad श्री सूत्रकृताङ्गसूत्रम् ॐadical२१] भो ! जम्बू ! एते-पञ्चभूतवाद्यादिौराशिकान्ता जिता रागद्वेषादिभि: शब्दादिविषयैश्च तथा प्रबलमहामोहोत्थाऽज्ञानेन च न शरणं यतस्ते बाला अपि सन्तः पण्डितमानिनो हित्वा स्वजनधनादिकं पूर्वसंयोगं पुन: सिता: गृहस्थास्तेषां भूतोपमर्दकारि पचनपाचनादिकं कृत्यं तस्योपदेशं गच्छन्तीति सितकृत्योपदेशगाः, यदिवार्षत्वात् 'सिया' स्युः कृत्यं सावद्यानुष्ठानं तत्प्रधानाः कृत्या:-गृहस्थास्तेषामुपदेश: संरम्भसमारम्भारम्भरूप: स येषां ते कृत्योपदेशका इति । अयं भाव:- प्रव्रजिता अपि सन्त: कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्ते, गृहस्था इव तेऽपि सर्वावस्थाः पञ्चसूनाव्यापारोपेता न स्वपरत्राणायेति ।।१।। एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तद्दर्शयितुमाहतं च भिक्खू परिण्णाय, विज्जं तेसु ण मुच्छए । अणुक्कसे अप्पलीणे, मज्झेण मुणि जावते ।।२।। भिक्षुः तं-पाखण्डिलोकं परिज्ञाय विदन्-विद्वान् तेषु-तीर्थिकेषु न मूर्च्छयेत्तथा अनुत्कर्ष:-आत्मप्रशंसां परिहरन् भावतश्च अप्रलीनो असंबद्धो मध्येन रागद्वेषयोरन्तरालेन संचरन् मुनिः आत्मानं यापयेद्-वर्तयेदिति ।।२।। किमिति ते तीथिकास्त्राणाय न भवन्तीति दर्शयितुमाहसपरिग्गहा य सारंभा, इहमेगेसि आहियं । अपरिग्गहे अणारंभे, भिक्खू ताणं परिवते ||३|| __ सपरिग्रहाः सारम्भाश्च तीथिकादय: सपरिग्रहारम्भकत्वेनैव च मोक्षमार्ग प्रतिपादयन्तीति दर्शयति-इहैकेषाम् आख्यातम्, यथा-किमनया शिरस्तुण्डमुण्डनादिकया क्रियया ? परं गुरोरनुग्रहात् परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्तीति । एवं सति ये अपरिग्रहा अनारम्भाश्च तान् भिक्षुस्त्राणं-शरणं परिव्रजेदिति ।।३।। कथं पुनस्तेनापरिग्रहेणानारम्भेण च वर्तनीयमित्येतद्दर्शयितुमाहकडेसु घासमेसेज्जा, विऊ दत्तेसणं चरे । अगिद्धो विप्पमुक्को य, ओमाणं परिवज्जते ||४|| ___ गृहस्थैः स्वार्थं कृतेषु षोडशोद्गमदोषशुद्धौदनादिषु ग्रासम् आहारम् एषयेत्-षोडशोत्पादनदोषान् परिहरन् याचेद् विद्वान् तथा दत्तैषणां चरेत्-दशैषणादोषान् वर्जयन् गृह्णीयाद् गृहीते चाहारे अगृद्धः पञ्चग्रासैषणादोषान् परिहरन्नभ्यवहरेत्तथा सर्वत्र रागद्वेषाभ्यां विप्रमुक्तः सन् परेषाम् अपमानं-परावमदर्शित्वं परिवर्जयेत्, न तपोमदं ज्ञानमदं च कुर्यादिति भावः ।।४।। एवं तीथिकान् गृहस्थोपमान दर्शयित्वाधुना तेषामेवाभ्युपगमं विपरीतप्रज्ञासंभूतं तथाऽविवेकिजनजल्पितानुगं दर्शयन्नाह

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162