Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 18
________________ aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aacharides १३ ] सते आत्मनश्च वितर्काभिः अयमेव-'अज्ञानमेव श्रेय' इत्येवमात्मको मार्ग: अंजू-ऋजुरिति प्रतिपन्ना हि-यतस्ते दुर्मतय इति ।।२१।। साम्प्रतमज्ञानवादिनां स्पष्टमेवानर्थाभिधित्सयाऽऽहएवं तक्काए साहेंता, धम्मा-ऽधम्मे अकोविया । दुक्खं ते नाइतुटुंति, सउणी पंजरं जहा ||२२|| एवं तर्कया-स्वकीयविकल्पनया साधयन्तः- प्रतिपादयन्तो धर्मे अधर्मे च अकोविदास्ते दुःखं नातित्रोटयान्ति-मूलतो नापनयन्ति यथा शकुनिः पञ्जरं, एवमेतेऽपि संसारपजरादात्मानं मोचयितुं नालमिति ।।२२।। अधुना सामान्येनैकान्तवादिमतदूषणार्थमाहसयं सयं पसंसंता, गरहंता परं वइं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥२३॥ __ स्वकं स्वकं दर्शनं प्रशंसन्तो गर्हन्तश्च परं वचः-परकीयां वाचं ये तत्रैव-आत्मीयदर्शनेष्वेव विद्वस्यन्ते-विद्वांस इवाचरन्ति ते संसारं व्युच्छ्रिता:-संबद्धाः, तत्र वा संसारे सर्वदा उषिता भवन्तीत्यर्थः ।।२३।। अथ पुनर्भिक्षुसमयमधिकृत्याहअहावरं पुरक्खायं, किरियावाइदरिसणं । कम्मचिंतापणट्ठाणं, संसारपरिवड्ढणं ||२४|| अथाऽपरं यत् पुराऽऽख्यातं तद् बौद्धानां क्रियावादिदर्शनं-चैत्यकर्मादिका क्रियैव प्रधानं मोक्षाङ्गमित्येवंवादिनां दर्शनं संसारस्य प्रवर्धनं भवति, क्वचित् ‘दुक्खक्खंधविवद्धणं' इति पाठमाश्रित्य दु:खपरम्पराया विवर्धनं भवति यतस्तदर्शनं कर्मचिन्ताप्रणष्टानां वादिनामिति ।।२४।। यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाहजाणं काएण (5)णाउट्टी, अबुहो जं च हिंसती । पुट्ठो वेदेति परं, अवियत्तं खु सावज्जं ||२५|| तेषां चायमभ्युपगम:-परिज्ञाऽविज्ञेर्यापथस्वप्नान्तिकभेदाच्चतुर्विधं कर्मोपचयं न गच्छति, तथाहि-(१) यो हि कोपादेनिमित्तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति न च कायेन प्राण्यवयवानां छेदनभेदनादिके व्यापारे वर्तते न तस्यावद्यम्, तस्य परिज्ञोपचितस्य कर्मोपचयो न भवतीत्यर्थः, (२) अजानान: कायव्यापारमात्रेण हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय: अविज्ञोपचितस्येति (३) ईरणमीर्या-गमनं तत्संबद्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम्, एतदुक्तं भवति-पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यत्प्राणिव्यापादनं भवति तेन कर्मणश्चयो न भवति, तथा (४) स्वप्न एव लोकोक्त्या स्वप्नान्तः स विद्यते यस्य तत्स्वप्नान्तिकं, तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति ?

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162