Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 27
________________ काण्डम् . ] शक्तिवादः । (१९) यत्वानुपगमे तदुपरागेण 'शृणोमि' इत्यनुव्यवसायानुपपत्तिरितिवाच्यम्, इष्टत्वाद् विधेयोपरागेणैव तथाप्रत्ययात्, लक्ष्यार्थस्य शाब्दबोधविषयत्वेपि तस्य विधेयतया भानानभ्युपगमात् "विधौ न परः शब्दार्थः" इति सिद्धान्तादितिचेत ? न-'मश्चाः कोशन्ति' इत्यादी लक्ष्यार्थमश्वस्थपुरुषादेः शाब्दबोधविषयताया आवश्यकत्वात्. अन्यथा पूर्वाननुभूतस्य पुरुषादेः प्रतीत्यनिर्वाहात्. अननुभूतस्प स्मरणासम्भवात् । समानप्रकारकत्वमात्रेण शाब्दबोधपदार्थोपस्थित्योः कार्य विषयकत्वेन ( लक्ष्यार्थप्रकारत्वेन वा ) 'शृणोमि तीरं शृणोमि' इत्यायनुव्यवसायो न स्यात्, अनुव्यवसायस्य स्मृतिरूपत्वात् स्मृतेश्चानुभूतार्थविषयकस्वनियमात्, 'शृणोमि' इति च शाब्दोनुव्यवसायः शाब्दानुभवविषयविषयक एव सम्भवति लक्ष्यार्थस्य च त्वया शाब्दबोधविषयत्वं न स्वीक्रियते इति तद्विषयकानुव्यवसायानुपपत्तिरित्याशझ्याह-न चेति, उक्ते इष्टापत्तिमाह-इष्टस्वादिति, लक्ष्यार्थविषयकानुव्यवसाय एव न स्वीक्रियते येन तदनुपपत्तिर्दोषः स्यादित्यर्थः । उक्त हेतुमाह--विधेयेति, विधेयोपरागेण विधेयविषयकत्वेन, तथाप्रत्ययात् अनुव्यवसायविषय. ताप्रत्ययात्, विधेयस्यैवानुव्यवसायो भवतीत्यर्थः । स्वाभिप्रायमुद्घाटयति-लक्ष्यार्थस्येति, लक्ष्यार्थस्य शाब्दबोधविषयत्वस्वीकारेपि तस्य लक्ष्यार्थस्य विधेयतया भानं नाम विधेयत्वं न स्वीक्रियते, शक्यसम्बन्वित्वेन गृहीतो हि लक्ष्यार्थों भवति "विधिरत्यन्तमप्राप्तौ" इति प्रमाणात् प्रमाणान्तरेण गृहीतस्य च विधेयत्वं न भवतीति न लक्ष्यार्थस्य विधेयत्वसम्भवः, प्रमाणमाह-विधाविति, विषयत्वं सप्तम्यर्थस्तथा च परः शक्यार्थभिन्नः शब्दार्थः लक्ष्यार्थो विधिविषयः ( विधेयः ) न भवतीति विधेयत्वाभावादेव लक्ष्यार्थस्यानुव्यवसायविषयत्वमपि न भवति न तदनुपपतिर्दोष इत्यर्थः । अथेत्यादिनाशङ्कितं परिहरति-नेति, 'मञ्चा: क्रोशन्ति' इत्यत्र मञ्चपदस्य मञ्चस्थपुरुषे लक्षणास्ति मचानां क्रोशनकर्तृत्वासम्भवाद् मञ्चस्थत्वस्य मार्जारादौ सम्भवेपि क्रोशनकर्तृत्वस्य तत्राप्यसम्भवादिति मञ्चपदेनात्र लक्षणावृत्त्या लक्ष्यार्थस्य मञ्चस्थपुरुषस्य प्रतीयमानस्य शाब्दबोधविषयत्वमावश्यकमेवेत्यर्थः । विपक्षे बाधकमाह-अन्यथेति, यदि मञ्चस्थपुरुषे लक्ष्यार्थभूते शाब्दबोधविषयता न स्यात्तदा तादृशमञ्चस्थपुरुषस्य पूर्वाननुभूतत्वाद् अननुभूतस्य च स्मृतेरप्यसम्भवात् प्रतीतिनिर्वाहो न स्याद् भवति च प्रतीतिरिति शाब्दबोधविषयताऽत्रश्यं स्वीकार्येत्यर्थः । 'गङ्गायां घोषः' इत्यादौ तु लक्ष्यार्थस्य तीरादेः पूर्वानुभूतत्वेन स्मृतिरूपा प्रतीतिः सम्भवतीति तत् त्यक्त्वा 'मञ्चा: क्रोशन्ति' इत्युदाहृतम् । ननु शाब्दबोधविषयतायां वृत्यधीनोपस्थितेः कारणत्वात् मञ्चस्थपुरुषस्य च पूर्वमननुभूतत्वादुपस्थितिरेव न सम्भवतीति कथं तस्य शाब्दबोधे भानं स्यादित्याशक्य गुरुमतेन मञ्चस्थपुरुषस्य पूर्वाननुभूतस्यापि शाब्दबोधविषयतामुपपाइयति -- समानेति, अयमर्थः-तर्फमते शक्तिग्रहकाले घटत्वेन रूपेण सकलघटानां सामान्यलक्षणाप्रत्त्यास

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216