Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
( १९८)
सादर्श:
[विशेषकाण्डेजातिशक्तिज्ञाने नियमतो जातिप्रकारेण व्यत्यभानात् तज्जन्यसंस्कारानियमतो व्यक्तिस्मरणासम्भव इति चेत् ? का क्षातः- व्यक्तिविषयकज्ञानान्तरस्यावश्यकतया तजनितसंस्कारादेव व्यक्तिस्मरणसम्भवात् ।
अथ भवतु जातिशक्तपदज्ञानाजातिप्रकारेण व्यक्तिस्मरणं तथापि तत्प्रकारकशाब्दबोधो न सम्भवति- तद्धर्मप्रकारकर्मिविषयकशाब्दबोधे तद्धर्मप्रकारेण धर्मिगृहीतवृत्तिकपदज्ञानजन्यतद्धर्मप्रकारकव्यक्तयुपस्थितेहेतुत्वात् । पदे गृहीत. त्तिकत्वमात्रनिवेशे घटत्वादिगृहीतवृत्तिकपदे गोत्वाद्यवच्छिन्ननिरूपितसंबन्धान्तरावगाहिज्ञानजन्यगोत्वादिप्रकारकस्मरणाद्गोत्वादिप्रकारकशाब्दबोधापत्तिः ।
ननु यदि जातिविषयकशक्तिज्ञाने नियमेन जातिप्रकारकव्यक्तिभानं स्यात्तदा तजन्यसंस्का. राजातिशक्तपदज्ञानानियमेन व्यक्तिस्मरणं स्यादपि न चैत्रमस्ति त्वया शक्तिशाने व्यक्तिभा. नस्यास्वीकारादित्याशङ्कते- जातिशक्तीति । उत्तरमाह- केति । उक्तक्षत्यभावे हेतुमाहव्यक्तीति, जातौ शक्तिग्रहकाले व्यक्तः प्रत्यक्षादिकं भवत्येव तादृशप्रत्यक्षादिनापि व्यक्तिविषयकसंस्कारो जायते तादृशसंस्कारादेव व्यक्तिस्मरण भवतीति न का चिदनुपपत्तिः, व्यक्तिविषयकसंस्कारस्योद्रोधस्तु जातिविषयकसंस्कारोद्बोधकादेवेत्यर्थः ।
जातिशक्तपदज्ञानाजातिप्रकारकव्यक्तिविशेष्यकस्मरणे स्वीकृतेपि तादृशस्मरणान्जातिप्रकारकव्यक्तिविशेष्यकशाब्दबोधस्तु नैव सम्भवतीत्यभिप्रायेणाशङ्कते- अथेति । उक्तासम्भवे हेतु. माह- तद्धर्मेति, तद्धर्मपकारकर्मिविषयकशाब्दबोधं प्रति तद्धर्मप्रकारेण धर्मिणि गृहीतवृत्तिकं यत्पदं तादृशपदस्य ज्ञानेन जन्या या तद्धर्मप्रकारकव्यक्त्युपस्थितिस्तस्याः कारणत्वमस्ति त्वन्मते च धर्मिणि व्यक्तौ शक्तिग्रह एव न भवतीति कथं जातिप्रकारकन्यक्तिविशेष्यकशाब्दबोधः स्यादित्यर्थः । ननु पदे तद्धर्मप्रकारेण धर्मिगृहीतवृत्तिकत्वस्य निवेशो न क्रियते येनोक्तदोषः स्यात् किंतु गृहीतवृत्तिकत्वमात्रस्य निवेशः कर्तव्यस्तथा च प्रकृते पदं जातौ गृहीतवृत्तिका मस्त्येवेति तादृशपदस्य ज्ञानाजायमाना या जातिप्रकारकव्यक्तिस्मृतिस्तया जातिप्रकार कव्यक्तिविशेष्यकशाब्दबोधस्य नानुपपत्तिरित्याशङ्याह- पदे इति, पदे गृहीतवृत्तिकस्वमात्रस्य निवेशे कृते घटत्वे गृहीतवृत्तिकं यद् घटपदं तद्विषयकं गोत्वावच्छिन्नगो व्यक्तिनिरूपितं यत् कालिकादिसम्बन्धान्तरं तदवगाहि यद् 'घटपदं गोत्वावच्छिन्नकालि. कम्' इत्यादिज्ञानं तजन्यं यद् गोत्वप्रकारकगोस्मरणं तस्मादपि गोत्वप्रकारकगोविशेष्यक शाब्दबोधः स्याद् न चैतदिष्टमिति पदे तद्धर्मप्रकारेण धर्मिगृहीतवृत्तिकत्वस्य निवेशः कर्तव्यस्तथा चोक्तरीत्या जातिप्रकारकव्यक्तिविशेष्यकनोधस्यानुपपत्तिरस्त्येव । ननु तद्धर्मप्रकारकशाब्दबोधं प्रति तद्धर्मगृहीतवृत्तिकपदज्ञानजन्यतद्धर्मप्रकारकोपस्थितेर्हेतुत्वमुच्यते इति पदे तद्धर्मगृहीतवृत्तिकत्वस्य निवेशः क्रियते तथा च घंटपदस्य गोत्वे गृहीतवृत्तिकत्वाभावादेवो

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216