Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 212
________________ (२०४) सादर्श: [विशेषकाण्डेतदसत्-शक्तिकालीनत्वादिसंबन्धावगाहिज्ञानवारणाय पदप्रकारत्वार्थविशेध्यत्वोभयनिरूपितशक्तिनिष्ठसांसर्गिकविषयताया निवेशस्यावश्यकतया शक्तिसं. सर्गकज्ञानसंग्राहकेण रूपेण लक्षणाग्रहाऽसंग्रहात् । अथ धर्मशक्तपदस्य धर्मिस्मरणशाब्दबोधजनकत्वे लोमाद्यात्मकोपाध्यवच्छिन्नबोधकपश्वादिपदस्यापि धर्मिशक्तिविलीयतां युक्तेः साम्यात् । न च निर्विकल्पकरूपस्य स्मरणस्य शाब्दबोधस्य चाऽनभ्युपगमाज्जातिवाचकपदाद् व्यक्त्याविषयकस्मरणाद्यसंभवेन तस्य व्यक्तिस्मरणादिजनकत्वम्. धर्म्यविषयकस्यापि च लोमत्वाद्यवच्छिन्नविषयकस्य स्मरणादेः संभवात् पश्वा परिहरति--तदसदिति, यदि शक्तिसंसर्गकपदप्रकारकार्थविशेष्यकज्ञानम्य शाब्दबोधकारणत्वं स्यात्तदा 'स्वनिष्ठशक्तिकालिकत्वसंबन्धेन घटपदविशिष्टो घटः ' इत्यादिशक्तिकालिकत्वादिसंबवावगाहिज्ञानादपि शाब्दबोधः स्यादेव- अत्रापि शक्तेः संसर्गतया पदस्य च प्रकारतया प्रवेशात, न चैतदिष्टमिति शक्तिकालिकत्वादिसंबन्धावगाहिज्ञानाच्छाब्दबोधवारणाय पदनिष्टा या प्रकारता अर्थनिष्टा च या विशेष्यता तदुभयनिरूपिताया एवं शक्तिनिष्टमांसर्गिकविषयताया निवेश: कर्तव्य. स्तत्र च शक्तिसंसर्गकशक्तिज्ञानस्य संग्राहकेण पदनिष्टप्रकारतानिरूपितार्थनिष्ठविशेष्यतानिरूपितशक्तिनिष्ठ सांसर्गिकविषयताशालिवेन रूपेण लक्षणाज्ञानस्य संग्रहो न संभवति- शक्तिनिष्ठसांस. गिकविषयतायाः शक्यार्थमात्रनिरूपितत्वेन लक्ष्यार्थनिरूपितत्वाभावादिति लक्षणाज्ञानाधीनोपस्थितेः पृथगेय हेतुत्वापत्त्या प्रदर्शितगौरवं तदवस्थमेवेत्यर्थः । 'स्वनिष्ठशक्तिकालिकत्वसंबन्धेन घटपदविशिष्टो घटः ' इत्यत्र च शक्तिनिष्टसांसर्गिकथिषयतायाः पदप्रकारत्वार्थविशेष्यत्वनिरूपि. तत्वाभावादेतादृशज्ञानेन शाब्दबोधापत्तिर्नास्तीत्यवधेयम् । अत्र च स्वनिष्टशक्तिसंबन्धेन घटपदविशिष्टो घटः ' इत्यादिरूपेण शक्तिज्ञानमवधार्यम् । ___ तार्किकः शङ्कते-अथेति, यदि धर्ममात्रशक्तपदस्य धर्मिविषयकस्मरणशाब्दबोधजनकत्वं स्वीक्रियते तदा युक्तेः साम्याद् नाम यथा गवादिपदानां गोत्यादिधर्ममात्रशक्तत्वेपि गवादिव्यक्तिविषयकशाब्दबोधजनकत्वेन गवादिव्यक्ती शक्तिर्नास्ति तथा पशुपदस्थापि लोमादिधर्ममात्र शक्तिरस्तु तयैव शक्त्या पशुव्यक्तिबोधजनकत्वं भविष्यतीति पशुव्यक्तौ शक्तिर्न स्वीकार्येत्यर्थः । ननु जातिवाचकगवादिपदाद् यदि व्यक्तिं त्यक्त्वा गोत्वादेः स्मरणादिकं स्यात्तदा निर्विकस्पकमेव स्यात्-स्वरूपत एव गोत्वादी शक्तिस्वीकाराद् गोत्वत्वादेर्भानासंभवाद् न च निर्विकल्पकरूपयोः स्मरणशाब्दबोधयोः स्वीकारोस्तीति तस्य-जातिमात्रशक्तगवादिपदस्य व्यक्तिविषयकस्मरणशाब्दबोध जनकत्वं स्वीक्रियते. पशुपदस्य तु यदि धीमणि पशुव्यक्ती शक्तिर्न स्यात् किं तु लोमादिरूपधर्ममात्रे शक्तिः स्यात्तदा पशुपदालोमादीनां लोमत्वादिरूपेणैव स्मरणादिकं स्यात् तच्च न निर्विकल्पकं . येन तत्र पशुव्यक्तिमानस्यावश्यकता स्यादिति पशुव्यक्तिविषयकस्मरणशाब्दबोधौ न स्यातामिति पशुव्यक्तिविषयकस्मरणशाब्दबोधयोरुपपत्त्यथ तस्य-पशुपदस्य धर्मिवाचकत्वं धर्मिणि शक्तिश्च स्वीक्रियते इत्याशङ्कयाह-- न चेति । परिहारहेतुमाह-उपाधेरिति,

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216